Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पत्रमा
मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! __धर्मलाभोऽस्तु । वयं सर्वे कुशलास्स्मः । तव कुशलं कामये ।
"मम पुत्रस्स्वच्छन्दी व्यसनी दुराचारी च जातः, उन्मार्गं गतवान्, पुत्री 9KB चेतस्ततोऽटती"ति कथनं बहूनां मातापितॄणां मुखेभ्यः श्रुतं तथेदानीं श्रूयते चाऽपि । 48
र समाजस्य वर्तमानां परिस्थितिं दृष्ट्वा तत्कथनं सत्यमपि प्रतिभाति, किन्तु यदैतस्मिन् Ta विषये गम्भीरतया चिन्तनं क्रियते, बालकानां प्रतिभावाः श्रूयन्ते तदा ज्ञायतेऽत्र 26 दोषी कः, बालकाः कथमुन्मार्गं गच्छन्ति, ते स्वच्छन्दाचारिणः कथं भवन्ति, कथं 96 ॐ ते पितृभ्यां दूरं वसन्ति, किमर्थं संस्कारशून्या: परिदृश्यन्ते, इति ।
बन्धो ! यथाऽक्षरशून्ये कागदेऽभिलाषानुरूपं यत्किमपि लेखितुं चित्रयितुं . 26 वा शक्यमस्ति, तथैव बालकविषयेऽपि ज्ञेयम् । बालकस्य चित्तमतीव निर्मलं Ce
कोमलं च भवति, ततो यत्किमपि पश्यति तद् गृह्णाति, पश्चाच्च तदनुरूपं वर्तते । 8 बाल्यकाले तन्मनसि ये संस्कारा अङ्किता भवन्ति ते जीवनपर्यन्तं तिष्ठन्ति । अतो 98 बाल्यवयसि तस्य संस्कारसेचकैयेष्ठजनैर्यथा संस्कारसेचनं क्रियते तथैव तस्य । बालकस्य जीवनमपि सुन्दरमसुन्दरं वा भवति । यदि शुभसंस्काराणां सेचनं कृतं " स्यात्तहि स बालकः संस्कारी सरलश्च भवति, अन्यथोद्धत उन्मत्तश्च भवति ततो यदि बालक उद्धतो भवेत्तर्हि तत्र बालकस्य यावानपराधोऽस्ति ततोऽप्यधिकतरोऽपराधस्तस्य संस्कारसेचकानां ज्येष्ठजनानामस्ति । अत्र जगति 'पितरौ गुरुजनाश्च X8 संस्कारसेचका' इति मन्यते । किन्त्वत्र विकटः प्रश्न एष एवाऽस्ति यद 'वर्तमानकालीनाः पितरौ गुरुजनाश्च तत्तत्पदस्य कृते योग्या न वे'ति । इदानीं ? वयस्के जाते सति विवाह-पुत्रप्राप्ति-इत्येतावन्मात्रेण तौ पितरौ कथ्येते, एवं 88 किञ्चित्पठितं, कश्चिदुपाधिः प्राप्त इत्येतावन्मात्रेण गुरुत्वेन ख्यातिमान् भवति, ॐ किन्त्वयैतैः पूज्यजनैर्बालकेन सह यादृशो व्यवहारो विधीयते तज्ज्ञात्वा श्रुत्वा च , मन्येऽहमेतन्नोचितमस्ति । एतद्विषये चिन्तने क्रियमाणे सति बालको यदुद्धतस्स्वच्छन्दी च भवति तत्र मुख्यतः त्रीणि कारणानि ज्ञायन्ते । १- एतैः ?
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114