Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सोमः
resoKdxeNOK
भो ! अस्माकं समाजे न पत्न्यः पत्युर्नाम स्वमुखेनोच्चारयन्ति । १४ (सादरम्)
आं ज्ञातम् ! इयं परम्परा तु वाराणस्यामत्राऽपि वर्तते । भवतु, मां प्रतीक्षस्व । अहं सत्वरं कार्यालयमुपेत्य, सर्वामप्यौपचारिकता प्रपूर्य नगरनिगमभिषजा सहैव सवाहनमागच्छामि । दाहसंस्कारात्प्राक् मृत्युप्रमाणपत्रमनिवार्यम् । तत्सर्वं नगरनिगमभिषजा क्षणेनैव । सम्पत्स्यते। अलं क्रन्दनेन । अहमागत एव ।
(इति प्रतिष्ठते) महिला (सर्वान् सम्बोधयन्ती)
हे भ्रातरः ! किमेवं पश्यथ ? किमुपरतं मानवं न दृष्टवन्तो भवन्तः? Ki यदि किञ्चित्साहाय्यं कर्तुमिच्छथ तर्हि वरम् । अन्यथा गच्छत ।
(द्वित्राः पञ्चषाश्चजना आस्तृतप्रच्छदोपरि रूप्यकाणि प्रक्षिपन्ति) महिला (कृतकरोदनं कुर्वती)
भ्रातरः ! बहूपकृतं भवद्भिः । एतावता धनेन दाहसंस्कारप्रबन्धं करिष्ये । परमेश्वरो भवतां कल्याणं करोतु । भवतां बालवत्सां
सुखिनस्स्युः । * सम्मादन्यतमः भो ! अलं त्वरया । नगरनिगमाधिकारी सर्वमवलोक्य गतोऽस्ति।
मन्येऽसौ शीघ्रमेव समायास्यति भिषजं वाहनं चाऽऽदाय । है महिला युक्तं युक्तमाहुर्भवन्तः । सम्प्रति गच्छन्तु भवन्तः श्रीमन्तः । अहमत्रैव है
तमधिकारिणं प्रतीक्षिष्ये । (शनैः शनैः सम्मर्दोऽपयाति । स्थानं जनशून्यमवलोक्य महिला
प्रच्छदावृतं पति नखक्षतैः प्रबोधयति) पतिः (प्रच्छदमवतार्य सभयमुपविष्टः)
भोः ! सर्वं श्रुतम्मया । तदधिकार्यागमनात्प्रागेव क्वचिद् वाराणसीवीथिकायां निलीनैरस्माभिर्भवितव्यम् । अद्य रक्षितं भगवता 8 विश्वनाथेन । युक्तमाह भवान् । अहं तु एतावतैव भीताऽऽसं यदसावधिकारी । क्वचिद्गतागतं न सम्यक्तया निरीक्षेत भवच्छ्वासानाम् । एतेषां ds
Sxekexxesex
महिला
८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114