Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
म:
in
9.M
Fx गिरिधरः श्रीमन् ! न केवलं वयमेव ! एते रक्तोष्णीषाश्चतुष्पथरक्षिणोऽपि xx
नाट्यमिदं सम्यग् जानान्ति ।।
तथापि न च निवारयन्ति भीषयन्ति तर्जयन्ति वा ? गिरिधरः श्रीमन् ! आत्मोदरोपरि पादप्रहारं को नु कुरुते । पञ्चाशद्रूप्यकाणां
पञ्चमो भाग एतेषामेव भवति । एवं हि, तेऽपि प्रसन्ना रक्षिणोऽपि प्रसन्नाः । आदिवसं स्थानं परिवर्त्य महिलेयं नाट्यमिदमेव सम्पादयति,
प्रायेण शतद्वयमितानि रूप्पकाणि चाऽर्जयति ! सोमः (ललाटं ताडयन्)
भो परमेश्वर ! अहमपि कस्मिन् युगे जीवामि ! एतावदपि मया न ज्ञातम् ! सत्यमुक्तं कविना केनापि -
अग्निरन्नं मलं प्रीत्या किं न भक्षयितुं क्षमः ।
किं न कर्तुं क्षमा नारी किं न सिन्धौ विलीयते ॥ (भिषजं चालकं गिरिधरं प्रति)
भवतु, चायपेयं पिबामः । भद्र गिरिधर ! चायपेयार्थमापणिकमादिश । गिरिधरः यथाज्ञापयति श्रीमान् ।
(तथा कृत्वा पुनरुपावर्तते) श्रीमन् ! एतावन्मानं प्रक्ष्यामि । किमर्थं भवानात्मानमायासयत्येवम् ? * गिरिधर ! नगरनिगमाधिकारी अहमस्मि । इमां महिला परमार्थतो विपद्ग्रस्तां मत्वा साहाय्यार्थमुद्यतोऽभवम् । (सर्वे चायं पिबन्ति)
अ सोमः
MeNMOK
PVT.KC
॥ द्वितीयं दृश्यम् ॥ "नगरनिगमकार्यालये सान्ध्यकालिकोऽवकाशः । सर्वेऽप्यधिकारिणः कर्मचारिणश्च कारस्कूटरद्विचक्रिकादियानैर्यथायथं प्रस्थातुमुत्सुका दृश्यन्ते ॥ पर कृपानाथः (स्कूटरयानं पुरस्सारयन्)
अरे सोम ! गृहमुपावर्तिष्यसे न वा ? एहि, पृष्ठवर्तिनीमासन्दीमुपविश (सोम उपविशति । उभौ प्रस्थितौ)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114