Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 103
________________ MCXOK NXOK ४ सम्मर्दादेकःदेवि ! अलं क्रन्दनेन ! काशीयम् । यस्य क्वाऽपि गतिर्नास्ति तस्य ४४ वाराणसी गतिः। भगवान् विश्वनाथस्ते साहाय्यं विधास्यति । गृहाण तावदिदम् । (इति पञ्चरूप्यकमुद्रामास्तृतप्रच्छदोपरि प्रक्षिपति । अन्येऽपि जना यथाशक्ति रूप्यकाणि प्रयच्छन्ति) महिला भ्रातरः ! बालवत्सा युष्माकं सुखिनस्स्युः । यथा युष्माभिरहं ११ रक्षिताऽसहायमहिला तथैव कालभैरवो भवतस्सर्वान् नितरां पातु । ॐ (मृतपत्युश्चरणं संस्पृश्य, साभिनयं विलपन्ती च) भोः कथं न पश्यसि नगरवासिनां बन्धुजनानां नवनीतकोमलं हृदयम्। ११ हा मातः ! क इदानीं भविष्यत्यपरिचितेऽस्मिन् महानगरे शरणम् ? । सोमः (समक्षमागत्य) नित्यसौभाग्यवति ! अयं जनो भविता ते शरणम् ! प्रत्यभिज्ञातवती मां न वा? प्रातरपि त्वत्सहायतार्थमागतवानहम् । अकस्मादेव क्व तु विलीनाऽऽसीः। (सोमं पुलिसाधीक्षकेण सार्धं विलोक्यैव महिला शुष्कमुखी जायते) (अपरिचयं नाटयन्ती) श्रीमन् ! कोऽस्ति भवान् ? किमर्थं मामुपहसति दुर्भाग्यशालिनीम् ? पश्यन्ति भवन्तो यदहं मृतपत्युर्दाहसंस्कारार्थं भ्रातॄन् धनं याचे । मा भैषीः । मा भैषीः । अहमेव तव पति मणिकर्णिकाघट्ट प्रहिणोमि । (पुलिसाधीक्षकं प्रति) आरक्षिमहोदय ! कृपया साहाय्यं कुर्वन्तु भवन्तोऽपि । (पुलिसाधीक्षकः शयानं जनं वेत्रेण सकृत् ताडयति । स च । वेत्रप्रहृतस्सन् प्रच्छदं दूरे प्रक्षिप्य समुत्तिष्ठति । दर्शका विस्फारितनेत्रा ** जायन्ते ) है, पुलिसाधीक्षकः किं रे ! स्वर्गलोकं गतवानसि यमलोकं वा? एकेनैव वेत्रप्रहारेण पुनः पृथ्वीलोकमागतवानसि ? इयती त्वरा काऽऽसीत् ? पञ्चषान् वेत्रप्रहाराननुभूय नित्यमरणस्य ते प्रवृत्तिरेव प्रणष्टा स्यात् । । । महिला सोमः ९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114