Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विश्वेशः 'नैव विश्वज्योतिः ! एवं मा वद ।' विश्वज्योतिः 'आम्, लोकेश ! अहमेवमेव वदामि ।' विश्वेणः ‘एवंविधम् ? तर्हि विश्वज्योतिः ! अपि शरीरेऽस्मिन्मुगलरक्तं नास्ति ?
अपि त्वं मम किमपि साहाय्यं कर्तुं शक्नोषि ?' विश्वज्योतिः 'यथाऽऽज्ञापयति देवः ।' । Dविश्वेशः तर्हि मम तरवारिं मम करे धेहि । यावत् सा मम हस्ते विद्यते,
कोऽपि मां राजसिंहासनात् पृथक् कर्तुं नाऽर्हति ।'
आवेशेन सह विश्वज्योतिः - 'आम् , लोकेश ! एवंविधमेव भविष्यति ।' र इत्यभिदधती वृद्धस्य विश्वेशस्याऽसिं तत्करे निधाय तस्थौ । विश्वेश उत्तस्थौ, B प्रस्खल्य पतितुमारेभे, राजसुता विश्वज्योतिर्नृपं जग्राह, राजसिंहासनकक्षं प्रति च
निनाय ।
(२)
B. -
।
राजसिंहासने वृद्धो विश्वेश उपविष्टोऽस्ति, वर्णकावृता विश्वज्योतिश्च निकट एव निषण्णा, केचन च नायकाः- ये तस्मिन् काले तत्राऽऽसन् – स्थिताः सन्ति; वन्दिन्यपि तस्थौ । विश्वेशे सङ्केतयत्येव सा चिराभ्यस्तं स्वशब्दं वक्तुमारेभे । सद्य एव तन्मुखात् प्रथम एव शब्दे निर्गते तच्छिरोऽवपत्य दूरं याति ! सर्वे विस्मिता भूत्वाऽपश्यन् ।
धृतकवचो मयूरासनमतिः स्वखड्गं करवस्त्रेण प्रोञ्छन् पुरतः तस्थौ नत्वा च निजगाद - ‘श्रीमतो देहस्थितिं प्रतिकूलां श्रुत्वाऽऽत्मनो न प्रबभूव, अत उपतस्थौ ।' विश्वेशः (कम्पित्वा) 'किन्तु पुत्र ! एतादृशस्य रक्तपातस्य काऽपेक्षाऽऽसीत् ?
सद्य एव पश्य, वृद्धाया वन्दिन्याः शवो लुठति । हा! मयाऽवलोकितुं न शक्यते । (कम्पित्वा) अपि पुत्र, मामपि...' (इत्येतावदभिदधानो
मूच्छितो भूत्वाऽऽसनेनाऽवनतो बभूव) । मयूरासनमतिः (उच्चैर्ध्वनित्वा स्वसहचरान्) 'अपसारय तमपूतं शवम् ।' अधुना
विश्वज्योतिरात्मनो न प्रबभूव, द्रुत्वा सुरभि वारि च नीत्वा वृद्धपितुर्वदने प्रोक्षितुं प्रारेभे ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114