Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ बन्यथा महाभारते परशुरामस्य पितृभक्तिः डॉ. रूपनारायणपाण्डेयः व्यासप्रणीते महाभारते भगवतः परशुरामस्य चरितं विस्तरेण वर्ण्यते।। |_तस्य पितृभक्तिः सुविदिताऽस्ति । अत्र सा महाभारतमाश्रित्य सङ्क्षपेण प्रस्तूयते। । भार्गवो जमदग्निः (द्र.- ऋग्वेदः ३/६२, ८/१०१, ९/६५, १०/११०, १०/१६७) वेदाध्ययने रतस्तपसा देवान् वशमानयत् । स राजानं प्रसेनजितमधिगम्य तत्पुत्री रेणुकां वरयामास । नृपस्तस्मै तां ददौ । रेणुकायां जमदग्नेः पञ्च पुत्रा जाताः, तेषु रामः पञ्चमो बभूव । कदाचिद् रेणुका स्नातुं गता । नद्यां सभार्य क्रीडन्तं चित्ररथं विलोक्य सा तस्मिन् अनुरक्ता बभूव । तस्या मानसं भावं विज्ञाय महर्षिस्तस्या वधाय पुत्रान् आदिदेश । तस्य चत्वारः पुत्रास्तदाज्ञापालने शक्ता न बभूवुः । ततो महातपाः परशुराममुवाच - 'इमां पापां मातरं जहि ।' परशुरामः परशुमादाय मातुः शिरो जहार । तदनन्तरं महात्मनो जमदग्नेः क्रोध उपशान्तः । प्रसन्नः स परशुराममुवाद'तात ! मम वचनात् त्वया दुष्करमिदं कर्म कृतम् । धर्मज्ञ ! कामान् वृणुष्व, ये तव मनसि वर्तन्ते।' परशुरामोऽवदत् - 'पितृपाद ! मम माता जीवतु । तस्या मनसि मम वधस्य स्मृतिर्न स्यात् । सा मानसपापात् सर्वथा विमुक्ता भवतु । मम चत्वारो भ्रातरः स्वस्था भवन्तु । युद्धे मम कोऽपि प्रतिद्वन्द्वी न भवतु, अहं च दीर्घमायुः 4 प्राप्नुयाम् ।' महर्षिर्जमदग्निस्तस्य सर्वान् कामान् पूरयामास । एकदा कार्तवीर्यः समागत्य महर्षे)मधेनुवत्सं बलाज्जहार, आश्रमस्थान महाद्रुमान् च बभञ्ज । परशुरामाय तत्पिता सर्वं कार्तवीर्यदुराचारं निवेदयामास । रोरुदती होमधेनुं विषण्णं च पितरमवलोक्य कुद्धो रामः कार्तवीर्यम् उपाद्रुवत् । स युधि निशितैर्बाणैस्तस्य सहस्रसम्मितान् बाहून् चिच्छेद । सहस्रबाहोः सुताः परशुरामं विनाऽऽ श्रमं विलोक्य महर्षि जमदग्नि शरैर्जघ्नुः । मृत्युवशं पितरं दृष्ट्वा परशुरामोऽतीव विललाप । स उवाच ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114