Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कर्तव्यभानं चाऽप्येतच्छान्तेः सुखस्य च परमं कारणमस्ति । अतः.... ' तिलका मम प्रियतम !.....
(द्वारे 'टक् टक्' इति ध्वनिः श्रूयते ।) तिलका कः ?
(अहमिति वदन्ती मन्दा प्रविशति ।) मन्दा (सकटाक्षं) किं युवयोर्वार्तालापे प्रवेशार्हा वाऽहम् । तिलका अवश्यम्, अवश्यम् । आगच्छ, आगच्छ । वसन्तः (सहासं) न, न ।
मन्दा (उच्चैर्हसन्ती) यद्यागच्छेयं तर्हि किं करिष्यति भवान् ? 9 वसन्तः (हसन्) अहं बहिर्गमिष्यामि । (आसन्दं दर्शयित्वा) अनोपविशतु भवती। र युवां द्वे सख्यौ वार्तालापं कुरुताम् । अहं कार्यालयं गच्छामि ।
(स गच्छति ।) तिलका किं बहुकार्यव्यग्राऽसि ? येन मे गृहं नाऽऽगच्छसि ? मन्दा न, न । मम ऋत्विजो द्वादशकक्ष्यायां तथा श्वेता दशमकक्ष्यायां पठतः ।
१६- दिनाङ्कतो वार्षिकपरीक्षाऽऽरभ्यते । अतो बहिर्गन्तुं त्ववकाश एव
नोपलभ्यते । तिलका (सगर्व) यस्य सन्ततिस्स्यात्तस्यैवैतादृशी चिन्ता स्यात् । अहं तु निर्बाधं
सर्वत्र गन्तुं शक्ता । मन्दा (सोपहासं) रे ! इदानीं तु सर्वं सुन्दरं भासते । किन्तु पश्चाद् भानं
भविष्यति । तिलका असत्यम् । पुत्रं विनैवाऽद्यपर्यन्तं जीवनं व्यतीतम् । न कदाऽपि मया
दुःखमनुभूतम्। मन्दा यदि पुत्रो न स्यात्तर्हि वृद्धत्वे कस्ते सेवां करिष्यति ? नाऽन्यो बान्धव
आगमिष्यति । अन्यच्च तदा स्वर्गसुखादप्यधिकं सुखमनुभूयते यदा
पौत्र: स्वस्याऽङ्के रमते । तेषां 'लल्ल-मन्मनं' श्रोतुं न शक्यते, पुत्रं विना । तिलका (सदैन्यम्) एतत्तु भाग्याधीनमस्ति । यतः पुत्रेषु सत्स्वपि जनकः कार्य
करोति, एकाकी वसति, इति मया बहुशो दृष्टम् । अतः.....
७४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114