Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तहि अनाथाश्रमादप्येकं बालकमानयतु । वसन्तः किं, किम् ? (स्तब्धो जातः । तन्मुखं पश्यन् तूष्णीं स्थितवान् । स्वगतं
पुत्रमोहः पुत्रवाञ्छा च किं किं न कारयति ? सत्सु सुखसाधनेष्वपि स्वयमेव स्वपादोपरि कुठाराघातेन दुःखं कष्टं चाऽनुभावयति । स्वयं तु दुःखी भवत्येव, किन्त्वन्यानपि दुःखिनः करोति । मधुरसंसारमानन्दमयं जीवनं चाऽपि विषमयं क्लेशमयं च करोति । धिक् संसारं पुत्रवाञ्छां च ।)
(पटीक्षेपः ।)
(दृश्यं - ३) (वसन्तः कार्यालये कार्यरतोऽस्ति । तदा ट्रीन ! ट्रीन इति दूरभाषध्वनी रणति ।) वसन्तः (दूरभाषायन्त्रमुन्नीय) कः ? मनमोहनः (सदैन्यं) झटिति त्वं गृहमागच्छ । वसन्तः (सभयं) पितर् ! किं जातम् ? मनमोहनः तिलकाऽकस्मादेव मूच्छिता जाता । वसन्तः अस्तु । अधुनैवाऽहमागच्छामि ।
(शीघ्रं गृहं प्रविशति ।) वसन्तः (धावमानस्तिलकाया वदने हस्तं प्रसार्य) तिलके ! तिलके ! पश्य, क
आगतः ? (पितरमुद्दिश्य) भवानाङ्ग्लवैद्यमाह्वयतु ।) मनमोहनः पुत्र ! स इदानीमेवाऽऽगमिष्यति ।
__ (वसन्तस्तिलकाया वदनं पुनः पुनः पश्यन् हस्तं प्रसारयति । तदा तेनोपधानस्य समीपे पतितमेकं पत्रं दृष्टम् । तद् गृहीत्वा पठति ।)
मम प्राणवल्लभ ! हृदयङ्गम ! वसन्त ! का स्त्री मूर्खा स्याद्या त्वादृशस्य पत्युर्मधुरं सांनिध्यं प्राप्याऽपि मरणमिच्छेत् ? 'आदर्शपतिः कीदृशस्स्यात्', इत्यत्र त्वमेवोदाहरणम् । अद्यावधि मया न कदाऽपि दुःखमनुभूतं, नितरां सुखमेवाऽनुभूतम् , किन्तु भाग्यवशान्मे गृहे
ra
७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114