Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ जयन्तः (रुदन्) आम् । मेघना पितर् ! कथं भवान् रोदिति ? दीपिका (सबाष्पं) पुत्रि ! भगवतामस्माकमुपरि कृपा नास्ति, यद् भाग्यवशाद् लब्धावपि बालकावन्यत्र गच्छतः । वसन्तः मेघना जयन्तः वसन्तः (गृहं प्रविश्य, सानन्दं धावमानः) पितर् ! पितर् !... मनमोहनः किम् ? किम् ? वसन्तः पश्यतु, पश्यतु । (सहर्षम् ) अद्य भगवता महानुपकारः कृतः । (मनमोहनस्तौ गृहीत्वा चुम्बति, आलिङ्गति च । सहसैवाऽश्रुबिन्दुः पतति । पश्चाद् वसन्तस्तौ बालकौ नीत्वा सहर्षं प्रसुप्तायास्तिलकाया द्वयोः पार्श्वयोर्मुञ्चति ।) (मेघनामालिङ्ग्य) पुत्रि ! त्वमपि मया सहाऽऽगच्छ । (रुदती) न, न । मम भ्रातरौ मुञ्चतु । (मेघनामालिङ्ग्य, सबाष्पं) मित्र ! यथावसरं तौ नीत्वाऽत्राऽऽगमनीयं त्वया । (वसन्तस्तौ नीत्वा गच्छति । तदा जयन्तो दीपिका च रोदितः, मेघना तु 'भ्रात:, भ्रातर्' इत्युच्चैराराटिं कुर्वन्ती रोदिति । ) तिलका (मृदुस्पर्शमनुभूय) किम् ? एतत् किम् ? वसन्त ! प्रिय ! वसन्तः (सानन्दं) किम् ? तिलका (बालकौ दृष्ट्वा ) कस्यैतौ ? वसन्तः (सहर्ष) तव पुत्रौ ! तिलका (साश्चर्यं ) किं... किं... मम पुत्रौ ! कथम् ? वसन्तः भगवता दत्तौ । तिलका (सबाष्पं) किं सत्यमेतद् ? (तौ चुम्बति, पुनः पुनश्चुम्बति, आलिङ्गति च । क्षणं हस्तं पादं नेत्रं वदनं कर्णं च निरीक्षते चुम्बति च तदा सहसैव हर्षावेशान्नयनाभ्यामश्रुधारा प्रवहति ।) प्रिये ! तिलके! म...म... वसन्तः Jain Education International ८३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114