Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 92
________________ |asanaanaananas मनमोहनः (सखेदं) हा, हा, प्रतिदिनमेतादृशी दुर्घटना घटते । बहवो जना म्रियन्ते। किन्त्वद्य त्वश्राव्यं घटितम् । द्विवर्षीयौ बालकौ विहाय सर्वेऽपि मृताः । एताभ्यां बालकाभ्यां किमपराद्धम् ? येनैतादृशि लघुवयस्येव मातापितभ्यां वियोगो जातः ? (गद्दस्वरेण) तयोः पालनं कः करिष्यति ! ('ट्रीन, ट्रीन' इति दूरभाषध्वनिः श्रूयते ।) वसन्तः कः ? जयन्तः अहं, नमस्ते । वसन्तः नमस्ते । कुशलं वर्तते ? जयन्तः न, न । गोधरानगरे दुर्घटना जाता । किं त्वया वृत्तपत्रं पठितम् ? तत्रैको निकटस्वजन आसीत् । आपत्काले स एव मे साहाय्यं करोति स्म । स एव पन्या सह मृतः । तस्य द्वौ बालकौ विहाय सर्वे स्नेहिजना ) अपि मृताः । वसन्तः (सखेदं) तयोर्द्वयोर्बालकयोः किं भविष्यति ? जयन्तः तत्र गत्वा मया द्वौ बालकौ मद्गृहे एवाऽऽनीतौ । अहमेव तयोः पालनं करिष्यामि। वसन्तः किमहं तयोः पालनं कर्तुं शक्नोमि ? जयन्तः किं ? स्पष्टं वद । वसन्तः मम पुत्रो नास्ति । (ससङ्कोचम्) अतोऽहं तौ बालकौ दत्तकरूपेण स्वीकर्तुमिच्छामि। जयन्तः (क्षणं विचिन्त्य) यथा बालकयोः पिता मत्सखा तथैव त्वमपि मत्सखाऽसि । अतो यदि त्वं तयोरुत्तरदायित्वं स्वीकुर्यास्तहि मे न ... काऽपि चिन्ताऽस्ति । किन्तु.... वसन्तः- 'किन्तु' किम् ? निःसङ्कोचं वद । जयन्तः (सबाष्पं) तौ मत्पुत्रसमौ स्तः । अतः.... वसन्तः मित्र ! चिन्तां मा कुरु । "अद्याऽऽरभ्यैतौ मत्पुत्रौ" इति शपथं । गृह्णामि । जीवनपर्यन्तं मे प्राणवत्तयोः पालनं करिष्यामि । FFERHITH ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114