Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ " तदा 'न, न, स जागरिष्यति, रोदिष्यति' इत्यादिकं व्याजवचनमुक्तवती। तदा ममाऽतीव खेदो जातो हृदयं च भग्नं जातम् । किं पुत्रो नास्ति, अत। एतादृशमवमाननं सहनीयं मया ? . वसन्तः (सबाष्पं) हा, हा, स्वजना अप्येवं कुर्वन्ति ? धिक् तान् । तिलका (रुदती) ततोऽप्यधिकदुःखदा घटना जाता । ह्यः प्रातःकाले मन्दिरं गतवत्यासम् । तदा मार्ग सम्मार्जनं कृतवत्यौ शूद्रस्त्रियावपि मां दृष्ट्वा मुखं परावर्त्य 'वन्ध्येयं, वन्ध्येयम्, अस्या मुखदर्शनाद् दिनमशुभं भविष्यति' इत्यवदताम् । एवं श्रुते सत्येव मनसि शूल इव तीव्राघातो लग्नः । वसन्तः (सबाष्पं) प्रिये ! किं करवाण्यहम् ? तिलका अद्य कोऽपि निर्णयः करणीय एव । (सबाष्पम्) इतः परमहमेतादृश- मवमाननं सोढुं न शक्ता ।। वसन्तः (सदैन्यं) प्रिये ! त्वं तु मे प्राणवल्लभाऽस्ति । किं न जानासि, मयैतदर्थं किं किं न कृतम् ? अष्टादशवर्षेषु जगति विद्यमानानां सर्वासामपि देवदेवीनां पूजा कृता, तत्र सङ्कल्पः कृतः, दानं दत्तम्, उपवासादिकरणेन कायः शोषितश्च । रात्रिन्दिवमविगणय्य पुत्रप्राप्त्यर्थं सर्वं कृतम् । नैकमपि स्थानमवशिष्टं यत्र न गतोऽहम् । अद्यावधि यद्धनमुपार्जितं तस्य ८०% धनमेतदर्थं व्ययीकृतम् । प्रिये ! वयं हिन्दवस्स्मस्तथाऽपि 'पीरफकीरादीनां समीपमपि गतवानहम् । तेन दत्तं मन्त्रितं जलमपि पीतम्, तेन दत्तं दवरकमपि बद्धम् । किन्तु... (सबाष्पं) मनोरथो न सफलीभूतः । प्रिये ! प्रिये ! 'सर्वं भाग्याधीनमस्ति' इत्युक्तिमनुसृत्य ससुखं यथावज्जीवनं जीव । तिलका (सक्रोधम्) आजीवनमेतदवमाननं सोढुं न शक्ताऽहम् । 'वन्ध्या' इति न, किन्तु 'सौभाग्यवती जननी' इति श्रोतुमिच्छामि । मम कृतेऽवमानाद्वरं . मरणम् । वसन्तः (सभयं सदैन्यं च) प्रिये ! किं वदसि ? (तस्या हस्तं गृहीत्वा सबाष्पं) मम किं भवेत् ? तिलका यत्किमपि स्यात् । पुत्रं विना जीवितुं नाऽहं शक्ता । यदि मे जीवितमिच्छति ७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114