Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ N "किं तु तैर्न कृतं पापं यैर्भवान् तपसि स्थितः । अयुद्ध्यमानो वृद्धः सन् हतः शरशतैः शितैः ॥" __ (महा., आदि० १०७/३) ___एवं सकरुणं बहु विलप्य स पितुः प्रेतकार्याणि चक्रे, सर्वक्षत्रस्य वधं च प्रतिजज्ञे । स शस्त्रमादाय कार्तवीर्यस्य सुतान् हतवान् । ये ये क्षत्रियाः कार्तवीर्यस्य सुतानां साहाय्यं चक्रुः, तेऽपि तेन हताः । एवं त्रिसप्तकृत्वः पृथिवीं क्षत्रियरहितां कृत्वा समन्तपञ्चके तेषां रक्तेन पितॄन् तर्पयामास । ततो यज्ञं सम्पाद्य महीमृत्विग्भ्यः स ददौ । परशुरामस्य पितृभक्तिरपूर्वाऽस्ति । आतङ्कवादस्य निवारणायाऽद्य तादृशाः NA पुत्रा अपेक्ष्यन्ते । जयतु परशुरामः । K आत्मन्यपत्य-दारेषु प्राणेषु विभवेषु च । इतो नृपः इतो रङ्कस्तुल्या प्रीतियोरपि ॥ (नलविलासनाटके) ७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114