Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ अथ बालकानां संस्कारसेचक: 'शिक्षको गुरुः' इति मन्यते । बालकानां चित्तस्थितं दुर्गुणरूपमन्धकारमपाकृत्य सद्गुणरूपं प्रकाशमुद्योतयति स गुरुःशिक्षकः । उक्तं च 'गु' शब्दस्त्वन्धकारे स्यात् 'रु' शब्दस्तन्निरोधकः । अन्धकारविरोधित्वाद् गुरु इत्यभिधीयते ॥ 8 विद्यार्थिनां तत्तत्शक्तिं ज्ञात्वा तदनुरूपमध्यापयति स शिक्षकः । स न केवलं पुस्तकीयज्ञानमेव पाठयेत् किन्तु व्यवहारानुलक्षि ज्ञानमप्यध्यापयेत् । 8 नीतेस्सदाचारादिगुणानां च बोधमपि कारयेत्तथा महापुरुषाणां चरितं वर्णयेद्येन विद्यार्थिनस्तदनुरूपं वर्तेरन् । शिक्षको नारिकेलसदृशो वर्णितः । स कठोरानुशासनद्वारेण विद्यार्थिभिस्सह व्यवहरति, किन्तु तस्य हृदयं तु नवनीतमिव मृद्वस्ति, तस्य चित्ते स्वाश्रितानामेकान्तेन हितभावना करुणा चाऽस्ति । हन्त ! एतादृशाः शिक्षका अपि दुर्लभास्सन्ति । अद्य शिक्षका अपि न विद्याप्रेमिणः किन्तु धनलोभनो दृश्यन्ते । 8 तत एव तेषां कृते स्वाश्रितानामध्यापनं कल्याणं गुणवर्द्धनं च गौणमस्ति, केवलं धनस्यैव प्राधान्यमस्ति । तत एवाऽद्य शालायास्सकाशात् प्रशिक्षणवर्गाणां माहात्म्यमधिकं दृश्यते । अद्य प्रथमकक्ष्यायामध्ययनं कुर्वन् लघुवयस्को बालकोऽपि प्रशिक्षणवर्गस्याऽऽग्रहं करोति, यतस्स जानाति यद्, यद्यहं प्रशिक्षणवर्गे न गच्छेयं तदा स शिक्षको मामनुत्तीर्णं करिष्यति । ततोऽद्य पितरौ भोजनमकृत्वाऽपि प्रशिक्षणवर्गस्याऽध्यापनार्थं धनं व्ययीकुरुत: । अत एव कथयामि अद्य शिक्षका अपि दुर्लभास्सन्ति । शिक्षकजनानामाचरणमेव विद्यार्थिनां कृतेऽध्ययनं संस्कारमूलं चाsस्ति, किन्तु यदि शिक्षका एवाऽनीति दुर्वर्तनं च कुर्युस्तर्हि तदाश्रिताः किं शिक्षेरन् ? अद्य कन्यायाः कृते शालायां गमनमपि भीतिकरमस्ति । वृत्तपत्रिकायां बहुशः पठितं, बहुजनेभ्यश्च श्रुतमपि किन्त्वद्य मम भगिन्या मुखादेव यदा श्रुतं तदा मनोऽतीव खिन्नं जातं, मनसि च क्रोधोऽपि सञ्जातः । तयोक्तं भ्रातः ! विशेषपठनस्य तीव्रमहेच्छाऽऽसीत्, किन्तु शिक्षकेण मया साकमेतादृशो निन्दनीयो व्यवहारः कृतो येन पठनस्याऽभिलाषैव नष्टा । ततो महाविद्यालयो गणकयन्त्रवर्गश्चेति सर्वमपि त्यक्तम् । कदाचिद् मया प्रमाणपत्रं बहुधनदायिनी भृतिश्च न प्राप्यते तत् सहिष्ये किन्तु शीलखण्डनेन मे जीवनं कलङ्कयितुं नैवेच्छामि, इति वदन्ती सा 8 रोदिता । भ्रातर् ! 'एते शिक्षका विद्यादातारः पूज्याश्च' इति परमश्रद्धयाऽहं तान् पश्यन्त्यासम्, चित्ते समादर आसीत्, किन्त्वद्य सा श्रद्धैव नष्टा । 'शिक्षकाणां Jain Education International ३९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114