Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ कर्तुमिच्छामि' - इति स वयस्यः स्वजिज्ञासां प्रकटितवान् । किन्तु चर्चिलमहाशय उक्तवान् – 'वयस्य ! राजनीतिक्षेत्रादहं निवृत्तोऽस्मि । मम तत्कार्यं तु सम्पन्नं जातम् । नाऽस्त्यधुना मम तत्क्षेत्रे काऽपि रुचिः । इदानीं तु श्रमः प्रार्थनं चेत्येव मम जीवनकार्यमस्ति' इति । (२) अनुकरणीयो न्याय: ___ सम्राट सिकन्दर एकदाऽऽफ्रिकादेशे कस्मिंश्चिद् राज्ये गतवानासीत् । (60 तच्च राज्यं वनप्रदेशे बहुदूरं स्थितमासीत्, सुवर्णमपि तत्र विपुलप्रमाणमासीत् । यदा स तत्र प्राप्तवांस्तदा तत्रत्या जना उपहाररूपेण सुवर्णं गृहीत्वा तं निरीक्षितुमागताः। किन्तु सिकन्दरस्तान् प्रत्युवाच -- 'नाऽहं भवतां वैभवं निरीक्षितुमागतोऽस्मि । सुवर्णेन नाऽस्ति किमपि मम प्रयोजनम् । अहं तु भवतां जीवनस्य रीति नीति च द्रष्टुमागतोऽस्मि' इति । सर्वं पश्यन् सन् स मुख्यन्यायालयसमक्षमागतवान् । तत्र च नृपतिायार्थमागतान् न्यायं श्रावयति स्म । यावत् सिकन्दरोऽन्तः प्रविष्टस्तावदभियुक्तः कश्चिदागतः । स उक्तवान् - 'राजन् ! मया बुसभृता गौण्येका क्रीताऽऽसीदेतज्जनसकाशात् । गृहं गत्वा यदा मया सा गोणी समुद्घाटिता तदा ततः सुवर्णस्य कतिचन खण्डाः प्राप्ताः । मया तु केवलं बुसमेव क्रीतं न तु सुवर्णमतः सुवर्णखण्डोपरि नाऽस्ति मम कोऽप्यधिकारः । सत्यं किल ? बुसं मम, न सुवर्णम्। किन्त्वेष जनस्तत् स्वीकर्तुं सर्वथा निषिध्यति । न्यायदृष्ट्या तु सुवर्णोपर्यस्यैवाऽधिकारः किन्त्वेष नाऽङ्गीकरोति, अतो भवानेवाऽत्र प्रमाणम्' इति। विचित्रमस्याऽऽवेदनं श्रुत्वा सिकन्दरः साश्चर्यं तं निरीक्षितवान् । तावत् प्रतिवादी बभाषे - 'राजन् ! ममाऽपि किञ्चिच्छृणोतु तावत् । मया तु गोणी विक्रीता, अतस्तत्र को नाम ममाऽधिकारः ? यदपि गोणीतः प्राप्तमनेन तस्य स्वामित्वं त्वस्यैव न मम, अतो नाऽहं तद् ग्रहीष्यामि । बुसं यथाऽस्य सत्कं तथा स्वर्णमपि, यतस्तदपि गोणीत एव प्राप्तम् । एष ममाऽभिप्रायः । अन्ततो गत्वा भवानेव प्रमाणम्' इति । ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114