Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
कथानायम्
(१) स विवेको य: शान्तिकृत्
मुनिरत्नकीर्तिविजयः 'विन्स्टन लेनार्ड स्पेन्सर चर्चिल' (१८७४-१९६५) - 'चर्चिल' इति लघुनाम्नैव स जगति विख्यात आसीत् । ब्रिटन्देशस्य प्रधानमन्त्रित्वेन यदा स चितस्तदा द्वितीय विश्वयुद्धं प्रचलदासीत् । परिस्थितिस्तु विषमा विकटा चाऽऽसीत् । ) एतादृशि समये स्वराष्ट्रस्य विजयार्थं सङ्केतमेकं स प्रदत्तवान् - 'V For Victory' इति । यश्च पश्चात् तद्देशस्य स्वाभिमानस्य चिह्न जातम् । हिटलरस्य भयं तदा सर्वत्र प्रसृतमासीत्, किन्तु, प्रजासु तेन धैर्यं निर्भयत्वं च प्रसारितम् । स्ववक्तृत्वकौशलेन तेन प्रजासु साहसं सञ्चारितम् ।
___ ई.स. १९४५ तमे वर्षे चर्चिलस्य पक्षः पराजितोऽभवत् । परन्तु ई.स. १९५१ तमे वर्षे पुनः स प्रधानमन्त्रित्वेन चितः । ई.स. १९५५तमवर्षस्य एप्रिलमासस्य ६ दिनाङ्केऽस्वस्थताकारणात् प्रधानमन्त्रिपदात् स त्यागपत्रं दत्तवान् । राजनैतिककार्येभ्यः स निवृत्तो जातः । तदनु च स दश वर्षाणि यावज्जीवितवान् । निवृत्तेरेतं समयं स धामिकग्रन्थानां पठनेनोद्यानकर्मणा च यापयति स्म।
एकदा तस्य मित्रं तं मीलितुमागतम् । तदा चर्चिल उद्यान एकत्र क्षुपं रोपयन्नासीत् । स वयस्यस्तं वर्तमानकालीनं राजनैतिकप्रवाहमनुलक्ष्य प्रश्नान् कृतवान् । तदा चर्चिल उक्तवान्
-- ‘मित्र ! अस्मिन्नुद्यानकर्मणि बह्वानन्दमनुभवामि किल !' इति । .. 'किन्तु, भवतेऽहं किञ्चित् प्रष्टुमिच्छामि' - मित्रमुक्तवत् ।
'मां प्रष्टुमिच्छति भवान् ? तर्हि प्रथमं तावदुद्यानकर्मविषयकमपरं च नित्यमहं बाइबलग्रन्थं पठामि, तमधिकृत्य चेति विषयद्वयमेवोपलक्ष्य किमपि प्रष्टुमर्हति भवान्' - इति चर्चिलमहाशय उत्तरितवान् ।
'न हि, अहं तु भवादृशाय कुशलराजनीतिज्ञाय राजनीतिविषयकमेव प्रश्नं ।
४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114