Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 62
________________ घटं दृष्ट्वा स स्वप्नवार्ता स्मृतवान् यद् - इच्छाराम एतादृशं स्वप्नं दृष्टवानासीदिति । घटं तत्रैव मुक्त्वा स झटिति धावन्निव इच्छारामस्य क्षेत्रं गतवान्। । तत्र तं दृष्ट्वा, दूरादेव- इच्छाराऽऽऽम ! भो ! इच्छाराऽऽऽम ! - इत्याकारितवान्। (M किमस्ति रे ! किमेवं तारस्वरेण वदसि ? - इच्छारामोऽपृच्छत् । तावत् । समीपमागत्य- 'भ्रातर् ! त्वत्स्वप्नः सत्यः सञ्जातः । कर्षणकाले मम क्षेत्रभूमेरेको घटः प्राप्तः । त्वमेव तस्याऽधिकारी यत एतादृशं स्वप्नं त्वमेव दृष्टवानासीः । अतस्त्वमेव तं गृहाण' - इति भद्रभावेनोक्तवान् । तच्छ्रुत्वा इच्छारामश्चिन्तयति - सत्यमेवैष भगवानदासो मूर्योऽस्ति, यतोऽसत्यमपि मम स्वप्नकथनं सत्यमिवैव मत्वा धनसम्भृतं घटं मह्यं दातुमुद्यतोऽस्ति । भवतु यदप्यस्ति । अलं स्पष्टतया - इति । एवं चिन्तयित्वा भगवानदासं प्रत्यचकथत् - 'सत्यम्, सत्यं कथयसि त्वम् । आगच्छ, त्वया सहैव तव क्षेत्रमागच्छामि ।' एवं लोभाविष्ट इच्छारामस्तेन सह गत्वा घटं स्वगृहमानीतवान् । अतीवकुतूहलवशात् त्वरितमेव घटमुद्धाटयितुं प्रयत्नानादृतवान् । महता प्रयत्नेन स तमुद्घाटितवान् । अत्यन्तं हर्षाविष्ट आसीत् तदा सः । किन्तु यावत् सोऽन्तः पश्यति तावदेव तस्य हर्षो बाष्पीभूय व्यपगतः । भयात् तस्य शरीरं वेपते स्म । तत्र घटे वृश्चिका आसन् । झटित्येव स तं घटं यथाकथञ्चित् पुनः पिहितवान् । तदनन्तरमेव स किञ्चित् स्वस्थोऽभवत् । स चिन्तितवान् – 'हम् ! एष भगवानदासो मामेवं वञ्चितवान् किल ! । तं योग्यं शिक्षयाम्येव येन सोऽपि तत् सदा स्मर्यात् । एतान् वृश्चिकांस्तु तस्यैव गृहे निक्षेप्स्यामि' इति । तस्यामेव च रात्रौ इच्छारामो भगवानदासस्य गृहं गतवान् । द्वारं पिधाय स सुप्त आसीत् । अतः शनैः स तस्य गृहस्योपरितनभागे, कमपि भागमवलम्ब्य सघटो गतवान् । तत्र च शब्दो यथा न स्यात्तथा पटलं भित्त्वा घटमुखमुद्धाट्य तमधोमुखं कृतवान् । पतनस्य शब्दं श्रुत्वा सुप्तो भगवानदासः सहसा जागृतोऽभूत् । तस्य मस्तकेऽपि किञ्चित् पतितमिति तेनाऽनुभूतम् । तस्य शयनीये, पार्श्वभागे, परितः सर्वत्र च किञ्चित् पतति स्म । खन् खन् इति ध्वनिरपि जायते स्म । वातायनात् प्रसरति मन्देऽपि प्रकाशे तेन दृष्टं यन्निष्का वर्षन्त आसन् । एष स्वप्न उत सत्यमिति Jain Education International ५१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114