Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(३) न भाग्यादधिकं किश्चित्
.
एकदा कृषीवल एकः स्वगृहात् क्षेत्रं प्रति गच्छन्नासीत् । मार्गे तस्य प्रतिवेशी वयस्य इच्छारामो मिलितः ।
उभावपि परस्परं वार्तयन्तावग्रे चलितौ । मध्येमागं भगवानदास उक्तवान् - 'इच्छाराम ! अद्य प्रत्यूषकालेऽहं स्वप्नमेकं दृष्टवान् .. 'ईश्वरेण गृहपटलं भित्त्वा धनस्य वृष्टिः कृता' इति।
___एतच्छ्रुत्वा इच्छारामोऽपि - 'अरे ! भो ! मयाऽपि तदैवाऽद्य स्वप्नो दृष्टो यद्- कृषिकार्यकाले क्षेत्रात् सुवर्णमुद्राभृतो घट एको मया प्राप्तः' इति वितथमेवोक्तवान् ।
तस्यैतत्कथनं श्रुत्वा भद्रप्रकृतिर्भगवानदासोऽपृच्छत् - 'इच्छाराम ! किं स्वप्नाः कदापि फलन्ति खलु ?'
'तत्तु न जानाम्यहम्, किन्तु प्रत्यूषकाले दृष्टः स्वप्नः फलत्यपीति लोकोक्तिरस्ति'- इति इच्छारामः प्रत्युत्तरितवान् ।
'कदाचिदावयोः स्वप्नौ यदि फलदायिनावभविष्यतां तर्हि सत्यमेवावां धनवन्तावभविष्याव'- इति भगवानदासः स्वकीयं भावं प्रकटितवान् । तज्ज्ञात्वा इच्छारामः केवलं स्मितेनैव प्रत्युत्तरं दत्तवान् ।
एवं क्रमशस्तौ स्वस्वक्षेत्रं प्राप्तवन्तौ ।
अत्र भगवानदासः क्षेत्रं गत्वा सर्वं सज्जीकृत्य हलेन यावत् कर्षणमारब्धवांस्तावत् खन् न् न् ऽऽऽ इति ध्वनिस्तेन श्रुतः । स निर्णीतवान् यद् भूमिरन्तर्भागादेवैष ध्वनिरागतो यतस्तस्य हलमग्रे नाऽपसरति स्म । हलं बहिः कर्षयित्वा स तत्र पश्यति । ताम्रघट एकस्तत्र विद्यमान आसीत् । सकुतूहलं स तं बहिनिष्कासितवान् । घटस्य भारेणैव तेनाऽनुमतं यदन्तः किमपि विद्यते एव । किन्तु घटमुखं पिहितमासीदिति तत्र किमस्तीति तु न ज्ञातवान् सः ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114