Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 65
________________ अथ कतिपयवर्षैः पुनरपि श्रेष्ठिना स्वबन्धुजना भोजनार्थमामन्त्रिताः । भोजनानन्तरमेकैकां वधूं समाहूय श्रेष्ठी पृष्टवान् - वत्से ! पूर्वं मया ये शालिकणा दत्तास्तान् मेऽर्पय । तदा प्रथमा वधूर्गृहान्तर्गत्वा पञ्च कणानानीय दत्तवती, तान् दृष्ट्वा श्रेष्ठी आह नैते मया पूर्वं दत्ताः कणाः, किन्त्वेते तु नवीना भासन्ते । तयोक्तं - सत्यं, ते तु प्रोज्झिता मया । श्रेष्ठी उवाच भवतु । ततो द्वितीयां वधूमाहूय 'तनये ! पूर्वं दत्तान् कणानर्पय मह्यम्' इत्युक्तं श्रेष्ठिना । साऽवोचत् - ते तु मया भक्षिताः । श्वशुरोजगाद अस्तु । ततस्तृतीया वधूः पृष्टा । तदा सा स्वप्रकोष्ठं गतवती । तत्राऽऽभरणसमुद्गके स्थितान् कणानानीय श्रेष्ठ दत्तवती । आसन् । -- आवश्यकाः । किं ते एवैते कणा ये मया पूर्वं दत्ता: ? श्वशुर उवाच वधूरुवाच आं पितर् ! मयैते कणा इयन्ति दिनान्याभरणसमुद्रके रक्षिता Jain Education International - - श्वशुरोजगाद बाढम् । अन्ते कनीयसीं वधूमाहूय श्वशुरोऽवोचत् - त्वमप्यानयतु तान् कणान् । वधूरुवाच - पितर् ! क्षमताम् । तत्कणानामानयनार्थं तु बहवः शकटा श्रेष्ठी जगाद कथम् ? कथम् ? साऽवोचत् भवता ये कणा दत्तास्ते तु मया पितृगृहं प्रेषिताः । तैस्ते कणा मे सूचनानुसारेण स्वक्षेत्रे पुनः पुनः उप्त्वा वर्द्धिताः । अतोऽहं कथयामि यत्तदानयनार्थं बहुशकटा उपयोक्तव्या भविष्यन्तीति । तस्या एतादृशं चातुर्ययुतं वर्तनं निरीक्ष्य श्वशुरस्सर्वेऽपि च गृहजनाः प्रसन्ना अभूवन् । प्रसन्नवदनः श्रेष्ठी - "भोः ! प्रथमया वध्वा ते शालिकणा उज्झिताः, ततस्तां गृहशुद्धिकार्यार्थं नियोजयामि । द्वितीयया वध्वा ते कणा भक्षिता:, अतस्तां महानसाधिकारं समर्पयामि। तृतीया वधू रक्षणशीलाऽस्ति, अतस्सा गृहस्य सारवस्तूनि रक्षतु । कनीयसी वधूर्निपुणाऽस्ति, अतस्सा गृहस्वामिनी भवतु, तथाऽस्या आज्ञा सर्वैर्गृहजनैस्स्वीकार्ये" ति निर्णयं श्रावितवान् । एतच्छ्रुत्वा पूर्वमुद्गतस्याऽऽश्चर्यस्य समाधानं जातम् । ५४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114