Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ HE शुकनेनाऽनेन च वसन्तदेव एव ते भर्ता भविता। अतः शकुनग्रन्थिर्बध्यता'मिति। ५ 1 तयाऽपि शकुनग्रन्थिबंद्धा । ततः प्रियङ्करा वसन्तदेवमपि तं स्वप्नं कथितवती । श्रुत्वैतत् वसन्तदेवोऽपि स्वस्वप्नसंवादात् तमर्थं सिद्धमेवाऽमन्यत । प्रियङ्करयोक्तं - 'मे स्वामिन्या भवते स्वात्मा प्रकल्पितोऽस्ति । अतो विवाहाय सन्नह्यताम् ।' 'भद्रे ! विधिनैवेदं व्यधायि, अथाऽपि विधिरेव सर्वं घटयिष्यति । यतो मनुष्यघटितं कार्यं तु प्रायः क्वचिद् विघटतेऽपि ।' इति प्रत्युत्तरयन् वसन्तदेवो । रूपिणी नियतिमिव तां सत्कृत्य व्यसृजत् । इत्थं प्रियङ्कराद्वारा प्रत्यहमन्योन्योदन्तपीयूषपायिनोस्तयोः केचिद्दिना No व्यतीताः । ___अथाऽन्यदा स्वगृहे तस्थिवान् वसन्तदेवः पञ्चनन्दिश्रेष्ठिसदने वाद्यमानं मङ्गलतूर्यं श्रुत्वा तत्कारणं ज्ञातुं स्वकर्मकरं प्रेषयामास । तेनाऽप्यागत्योक्तम् - 'अद्य हि कन्यकुब्जनिवासिसुदत्तश्रेष्ठिनः पुत्राय वरदत्ताय पञ्चनन्दिना स्वदुहिता, केसरा प्रदत्तेति वर्धापनकृते तूर्यमेतद् वाद्यते ।' आकर्येदं मुद्गरेण ताडित इव वसन्तदेवो मुमूर्छ । एतावतैव प्रियङ्कराऽपि तत्राऽऽगता, शीतोपचारैस्तं स्वस्थीकृत्य समाश्वासितवती च यथा 'भद्र ! केसरा भवते सन्दिशति यत् "पित्रादिनोपक्रान्तमिदमाकर्ण्य भवता सर्वथा खेदो न कार्यः।। यतस्ते ममाऽभिप्रायानभिज्ञा अतस्तैरिदं विहितमस्ति । किन्त्वहं तु नैव विधास्ये तत् । भवानेव मे भर्ता भावी, नाऽन्यः । अन्यथा तु मरणमेव मे गतिः । इयं मे प्रतिज्ञा सत्या मन्तव्या यतः कुलीनानां वचनं न कदाऽपि मिथ्या भवति ।" / अंतो भवताऽत्राऽर्थे उद्वेगो न वोढव्यः' इति । एतेन प्रीतो वसन्तदेवोऽप्यूचे - 'सत्यमेतत् । न हि तादृशं स्वप्नदर्शनं कुलीनानां वाक् च मोघत्वं भजते कदाचित् । अतो ममाऽपीयमेव सन्धा यद यथाकथमपि केसरामेवोद्वक्ष्यामि मरणं वा शरणीकरिष्यामि ।' एतच्च तत्प्रतिश्रुतं प्रियङ्करा केसरां गत्वोक्तवती । साऽप्येतेनाऽत्यन्तं मुदिताऽभवत् । ततो द्वावपि परस्परमुद्वाहोपायान्वेषणपरौ कञ्चित् कालमत्यवाहयताम् । किन्तु बहूपायसेवनेनाऽपि तयोः कार्यं नैव सम्पन्नम् । तावताऽन्यदा प्रातः केसरोद्वाहार्थं कन्यकुब्जाद् जन्ययात्राऽप्याययौ । एतद् दृष्ट्वा निराशो वसन्तदेवश्चिन्ताजलनिधि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114