Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ तथाऽस्माकमेव सुहृदो जयन्तिदेवस्य स्वसाऽस्ति ।' तत आरभ्य वसन्तदेवो जयन्तिदेवेन सह गाढं सौहृदमारब्धवान् । इदमेव च सौहृदं द्वयोः परस्परं सद्मगतागतनिबन्धनमप्यभवत् । अन्यदा वसन्तौ जयन्तिदेवो वसन्तदेवं स्वगृहे न्यमन्त्रयत् । सोऽपि च । 2 सादरं ससम्भ्रमं च तन्निमन्त्रणं स्वीकृत्य तद्गृहं प्राप । यदा स गृहाङ्गणं प्राप्तस्तदा तेन कुसुमचयैः कुसुमायुधं पूजयन्ती केसरा दृष्टा । नयनकुमुदकौमुदीं तां निरीक्षितवतस्तस्य नयने उत्फुल्ले जाते मुखं च विकस्वरं सञ्जातम् ।। इतो जयन्तिदेवोऽपि वसन्तदेवं सहर्ष प्रवेश्य पुष्पमालादिभिः सत्कृतवान् । तदैव केसराऽपि तं सानुरागदृशा सम्भावितवती । एतेन द्वयोरपि नवर्णनीयो हर्षः सञ्जातः । एनं च द्वयोरपि भावं केसरासखी प्रियङ्करा लक्षितवती । इङ्गिता-. A कारवेदिभिर्हि परस्वान्तं सुलक्षमेव ननु ! अतस्तया केसरायै गदितं - ‘हले ! एष तव भ्राताऽस्य वसन्तदेवस्य र सत्कारादि करोति । त्वमपि यथोचितमस्य सत्कृति विधेहि ।' । तदा युगपद् व्रीडा-हर्ष- भयादिभावाननुभवन्त्या तयाऽप्युक्तं - 'भोः ! त्वमेवाऽत्राऽर्थे सुज्ञाऽसि, अतस्त्वमेव किञ्चित् कुरु ।' तदा प्रियङ्करयाऽङ्गणस्थप्रियङ्गतरुमञ्जरी कक्कोलकादीनि च फलान्यादाय वसन्तदेवसम्मुखं गत्वोक्तम् – 'सुन्दर ! स्वामिनी मे हस्ताग्रोच्चितान्येतानि पुष्पाणि फलानि चेष्टदेयानीति कृत्वा भवते प्रदत्ते ।' 'अभीष्टोऽहमेतस्याः' इति विचिन्त्य सहर्ष स्वपाणिना तेन पुष्प-फलानि गृहीतानि । ततोऽङ्गल्या नाममुद्रां निष्कास्य तस्यै च दत्त्वा कथितवान् - 'भद्रे ! . शोभनमिदं कृतं त्वया । एवमेव सदाऽपीष्टानुरूपमेव वर्तितव्यमिति तां कथयेः ।' । 'अवश्यं कथयिष्ये' इत्युक्त्वा साऽपि प्रियङ्करा केसराभ्यर्णं गत्वा मुद्रां । दत्तवती दृढानुरागकन्दोद्भेदने वारिसेकवत् तद्वचनमपि शंसितवती च । अथ च तस्यामेव रात्रौ चरमयामे केसरा वसन्तदेवश्च स्वप्ने उभयोः परस्परं परिणयनं दृष्टवन्तौ । एतच्च स्वप्नदर्शनं तयोविवाहादप्यभ्यधिकमासीत् । । प्रातःकाले केसरा प्रियङ्करायै स्वदृष्टं स्वप्नं कथितवती रोमाञ्चितवपुश्च तमेव पतीयाम्यहमिति निवेदितवती च । तदा निकटस्थेन पुरोधसाऽपि 'त्वदिच्छा फलीभूता - भविष्यत्येवे'ति साशिषा निगदितम् । प्रियङ्करयाऽप्युक्तं - 'स्वामिनि ! स्वप्नेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114