Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ कथा बोधकथा ) मुनिधर्मकीर्तिविजयः (१) SapaaDADAARADADA कश्चित् साधको बौद्धादीनां नैकानां गुरूणां समीपमटति स्म । एवमेवाऽऽटमाटं स एकदा कस्यचिद् झेनगुरोः सांनिध्यं प्राप्तवान् । मया बहूनि शास्त्राणि पठितानि किन्तु तृप्तिर्न जाता, अतो भवानपि किञ्चिदपि शास्त्रं पाठयतु येन तृप्तिस्स्यात्, इत्युक्तवान् सः । - झेनगुरु उवाच - उपविश । तेन समीपस्थितेन शिष्येण चायपूर्ण बृहत्पात्रं चषकं चाऽऽनायिते । तच्चषके च चायं भर्तुं प्रारब्धवान् । चषकं यद्यपि सम्पूर्णं भृतं तथाऽपि गुरुणा तक्रिया न स्थगिता। अतश्चायं चषकाद् बहिः पतितम् ।। साधकोऽवोचत् - प्रभो ! किं करोति भवान् ? किं भृते चषकेऽपि चायं छ भ्रियते? एतत्तु सर्वं निरर्थकं भवति । झेनगुरुर्जगाद-किं सत्यं वदसि ? भ्रातः ! यथा भृते पात्रे न किमपि भ्रियते तथैवाऽनेकविकल्पभृताय तुभ्यं ज्ञानं दातुं न समर्थोऽहम् । अतः प्रथमं त्वं हृदयं विकल्पशून्यं कुरु, पश्चादत्राऽऽगच्छेः । PAPADABADAADAARADADAPADABADASANAADARADARADARA PTETTENDVEDOEDOMETRIEVEDOETETD.ETTPOEM (२) एकदा बुद्धेन परुषवचनैर्देवदत्तो निष्कासितः । तदैकेन जिज्ञासुना पृष्टम्- अहो ! भवताऽपि क्रोधः कृतः ? बुद्धोऽवोचत् - मया क्रोधो न कृतः, किन्तु तस्योपयोगो विहितः । __ जिज्ञासुना व्याकृतं - को भेदोऽत्र ? " बुद्धो जगाद - केनाऽपि वैद्यराजेन कटुकं तिक्तं चौषधमुपयुज्येत तदा A किं सोऽपि कटुकः तिक्तश्च भवेत् ? जिज्ञासुना गदितं - 'न' इति । बुद्धः प्राह- ममाऽप्येवमेवाऽस्ति । क्रोधो मयौषधरूपेणैवोपयुक्तः, अतो व नैतावन्मात्रेणाऽहं क्रोधी स्याम् । - ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114