Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
येन तद् धारयित्वाऽसौ वयस्यस्ते परिजनं मोहयंस्त्वद्वदेव त्वत्सदनं गमिष्यति । ततः स्तोककालमत्र गमयित्वाऽऽवामपि देशान्तरं गमिष्यावः ।'
निशम्यैतद् हर्ष - रभस - लज्जादिभावान् युगपदेवाऽनुभवन्ती स्ववेषं कामपालायाऽऽर्पयत् । सोऽपि च तत् परिधाय कामदेवं कुसुमादिनाऽचित्वा च नीरङ्गीपिहिताननो द्वारमुदघाटयत् । तत्र स्थितां प्रियङ्करामवलम्ब्य शनैः-शनैः स याप्ययानं गत्वा परिजनैरलक्षित एव तत् समारोहत्, वाहीकाश्च तदुद्वाह्य पञ्चनन्दिगृहं प्राप्ताः । नूनं, सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति ! । ततः स प्रियङ्करयैव यानादवतार्य वधूगृहं नीतः स्वर्णासने चोपवेशितः । तदनु 'केसरे ! प्रियसमागमं मन्त्रं स्मरन्तीतिष्ठाऽत्र' इति सोपहासमुदित्वा निर्गता । अयमपि च तद्वचसो भावार्थं स्वाशयानुरूपं गृहीत्वा काम - रतिसमागमं मन्त्रं मुहुर्मुहुः स्मरति स्म ।
अथेतः सा शङ्खपुरवास्तव्या केसरामातुलसुता मदिराऽपि जन्ययात्रायां निमन्त्रिता तत्राऽऽगताऽऽसीत् । सा केसरां द्रष्टुं वधूगृहमागता केसरावेषधारिणश्च कामपालस्य पुरत उपविश्य सनिःश्वासं वक्तुमारब्धा 'हले केसरे ! विध्यधीनेषु कार्येषु मा खिद्यस्व । मया श्रुतमासीद् यत् ते वसन्तदेवसङ्गम एवाऽभीष्टोऽस्ति ।
! मयाऽपि प्रेोविरहवेदनाऽनुभूताऽस्ति । अतस्त्वां समाश्वासयितुमेवेदं वच्मि यद् यथाऽयं विधिः प्रतिकूलोऽनभीष्टं कुरुते तथैवाऽनुकूलीभूयाऽभीष्टमपि करोति । किञ्च सखि ! त्वं तु धन्यैवाऽसि यस्यास्ते प्रियेण साकं दर्शनालापप्रभृतीनि बहुशो जातानि । परं मम वृत्तान्तस्तु दारुणो दुःश्रवश्चाऽस्ति । शृणु तावत् - अस्माकं नगराद् बहिः प्रवर्तमाने शङ्खपालोत्सवे एकदाऽहं परिजनैः सह गतवत्यासम् । तत्र चाऽशोकपादपाधस्तादेकं मनः सर्वस्वतस्करं प्रत्यक्षं मन्मथमिव युवानमद्राक्षमहम् । तं च दृष्ट्वाऽनुरागवती सञ्जाताऽहं सखीहस्तेन तस्मै एकं ताम्बूलं प्रेषितवती । तेनाऽपि चाऽहं साक्षात्कृतान्तादिव घोरान्मत्तवारणात् स्वचातुर्येण पराक्रमेण च रक्षिता । अथैतावता पुनरपि हस्तिनः शङ्कायां त्रस्ताऽहं यावत् किञ्चिद् गत्वा पुनरागता तावत् स विस्तीर्णनभसि विहग इव कुत्रचिद् गत एव । ससख्या मया बह्वविष्टोऽपि स कुत्राऽपि नोपलब्धः ।
ततः प्रभृत्यहं वृश्चिकदष्टा मर्कटीव सर्वत्राऽरतिभाजनभूता कथंकथमपि वराक्येषा जीवामि । तथाऽद्ययावत् तं स्वप्ने दर्शं दर्शमेव समाश्वासयामि स्वं, कदाचित्तु दैवप्रसादेन स प्रत्यक्षो भविष्यति । इदं सर्वमपि रहस्यं तव दुःखं लघूकर्तुमेव शंसितं मया । अन्यं दुःखितं दृष्ट्वा दुःखिनः समाश्वसन्ति ननु ! |
Jain Education International
६२
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114