Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ Jain Education International सरल: आनन्दः गुरु: भक्तः श्रीमान् प्रपञ्चादिकं कृत्वाऽपि जनसमक्षं मुग्धभावेन वर्तने यः कुशलस्स सरलः । नारदविद्यया द्वयोर्मित्रयोर्मध्ये क्लेशं कारयित्वा दूरतो विवादं कुर्वन्तौ तौ दृष्ट्वा मनसि या तृप्तिरनुभूयते स आनन्दः । आश्रितजनानां भावनां दृढीकृत्य स्वं प्रत्याकृषति, पश्चात्तेषां धनस्य सत्तायाश्चोपयोगं विधाय स्वमनोरथं यः पूरयति स गुरुः । गुरुजनानामशुभकार्येष्वपि साहाय्यं कृत्वा स्वस्वार्थं स्वेप्सितं च साधयति स भक्तः । यस्य कथने वर्तने च तुच्छताऽहङ्कार उद्धतता च दृश्यते, तथाऽपि यस्य परितो दश पञ्चदश वा जना भ्रमरवन्निरन्तरमन्ति स श्रीमान् । अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ (कुवलयानन्दे) ४५. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114