Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
६ साक्षात आस्वादः
मुनिकल्याणकीर्तिविजयः जैनदर्शनं स्याद्वादमूलकमस्ति । स्याद्वादो नामाऽनेकान्तवादः सापेक्षतेति । 6. यावत् । यथा कश्चित् पुरुषो नं कदाचिन्निरपेक्षतयैकान्तेन वा किञ्चिद् भवितुमर्हति । 23 स कस्यचित् पुत्रः, कस्यचिद् भ्राता, कस्यचित् पिता, कस्यचिन्मातुलः पितृव्यो २० 5 वा स्यात् तथा पतिर्बन्धुः श्यालो भागिनेयो वाऽपि स्यात् । एकान्तेन तस्मिन् 50
पुत्रत्वं, पितृत्वं, भ्रातृत्वं वा स्थापयितुं नैव शक्यम् । एषैव सापेक्षता । व्यतीतेषु । 96 शतकेषु दार्शनिकपरिप्रेक्ष्ये पुरस्कृत एष सिद्धान्तः कैश्चित् कदाचित् स्वीकृतः २७ कैश्चिच्च तिरस्कृतोऽपि । किन्तु यदाऽस्मिन् शतके एष एव सापेक्षतासिद्धान्तः । KE (Relativity) वैज्ञानिकपरिप्रेक्ष्ये महावैज्ञानिकेन आल्बर्ट आइन्स्टाइन्-वर्येण 6. प्रस्थापितस्तदा सर्वैरपि स निर्विरोधं स्वीकृतः । यद्यपि साम्प्रतं बहवः सिद्धान्ता
बहुभिर्नूतनैवैज्ञानिकैः परिष्कृताः पुरस्कृताश्चाऽपि तथाऽपि सापेक्षतासिद्धान्तस्तु 5 सर्वेषामपि मान्य एव ।
अथ कोऽयं सापेक्षता सिद्धान्तः ? इति प्रश्नस्योत्तरम् आइन्स्टाइन्महोदयस्य : 6. शब्दैरेव सम्बुध्यामहे । 86 "कदाचित् केनचिन्मित्रेण सापेक्षतासिद्धान्तं सरलतयाऽवबोधयितु६.७ मुक्तोऽहम् । तदा मया तस्मै एकः प्रसङ्गः कथितः - a एकदाऽहमेकेनाऽन्धमित्रेण सह पर्यटन्नाऽऽसम् । विविधवार्तालापमग्न९ योरावयोरकस्मादेवाऽहं शीतलदुग्धपानेच्छां प्रकटितवान् । एतच्छ्रुत्वा मम सुहृद : 86 किञ्चिदिव विचार्य पृष्टवान् माम्२४ दुग्धम् ? पानं तु मयाऽवबुद्धं किन्तु किमिदं दुग्धं नाम ? मयोक्तम् - 50 अहो ! तत्तु एकं श्वेतं द्रवद्रव्यम् ।
द्रव इति त्ववबुद्धं, किन्तु किमिदं श्वेतं नाम ? - स पृष्टवान् । 6. मयोक्तं - हंसस्य पक्षयोर्वर्णः श्वेत इति कथ्यते ननु ! & पक्षौ त्वहं जानामि परं कोऽयं हंसो नाम ? - स पृष्टवान् ।
मयोक्तं - हंसस्तु वक्रग्रीवः पक्षी समस्ति खलु ! ।
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114