Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ __ - ननु भवताऽऽगमतो द्रव्यमङ्गलमपि शरीरमेवोक्तमिदमपि च । तदनयोः कः प्रतिविशेष:? सत्यम् । किन्तु तत्रोपयोगरूप आगमो नास्ति लब्धितस्तु (शक्तितस्तु) । विद्यत एव। अत्र तूभयरूपोऽपि नास्ति । केवलं शरीररूपं कारणमात्रमस्ति । ___ एवं चाऽत्राऽऽगमैकदेशवृत्तिरूपत्वादन्यत्र देशे निषेधान्नोशब्दो देशनिषेध- X वाचकः । २. भव्यशरीरद्रव्यमङ्गलम् : (१) य इदानीं मङ्गलपदार्थं न जानाति भविष्यति तु ज्ञास्यत्येव, तादृशस्य मङ्गलपदार्थज्ञानप्राप्तियोग्यस्य जीवस्य सचेतनं शरीरं भविष्यत्कालनयानुवृत्त्याऽनागतमङ्गलपदार्थज्ञानस्याऽऽधारत्वानोआगमतो द्रव्यमङ्गलमुच्यते। आगमस्याऽत्रेदानीं सर्वथाऽभावान्नोआगमत इत्युक्तमित्यादि y कारणजातं त्वत्र पूर्ववदवसेयम् । अत्र हि नोशब्दः सर्वनिषेधवाची । (२) इदानीं देशनिषेधवाचकनोशब्दापेक्षयोच्यते । भाविन आगमस्य कारणं सचेतनो देहः । स च स्वकार्यभूतस्याऽऽगमस्यैकदेशे वर्ततेऽतो स देहो नोआगमतो भव्यशरीरद्रव्यमङ्गलम् । अत्र कारणादिचर्चः पूर्ववज्ज्ञातव्यः । ३. इदानीं तद्व्यतिरिक्तद्रव्यमङ्गलमाह - इह हि परमार्थतो मङ्गलं द्विविधं वर्णितं जिनप्रवचने - (१) जिनप्रणीत आगमः (२) आगमवर्णिता प्रत्युपेक्षणादिका मङ्गल्या क्रिया । तत्र पूर्वं यानि द्रव्यमङ्गलानि आगमतो नोआगमतश्चोक्तानि तानि K सर्वाण्यागमापेक्षाण्येवोक्तानि । इदं तु तद्व्यतिरिक्तं द्रव्यमङ्गलं क्रियामाश्रित्योच्यते। - तथा हि - यः कश्चिन्मङ्गल्या प्रत्युपेक्षण-प्रमार्जनादिक्रियामन्यचित्ततयाऽनुपयोगेन करोति स नोआगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलमुच्यते । अथवा विधिप्रयुक्तश्चरणकरणक्रियाकलापो भावमङ्गलम् । पूर्वं यस्यैतादृशो A भावमङ्गलपरिणामो जातः साम्प्रतं तु नास्ति, तादृशं यद् जीवद्रव्यं शरीरं वा, तदन नोआगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलम् । एवमेव तादृशस्य भाविनो भावमङ्गलपरिणामस्य योग्यं यज्जीवद्रव्यं । शरीरं वा तदपि नोआगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलम् । अथवा शोभनवर्णादिगुणोपेतानि यानि स्वर्ण-रत्न-दध्यक्षत-कुसुम+ उपयोगो नाम बोधरूपो जीवव्यापारः ॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114