Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 36
________________ वाच्यम्; निराकारं ज्ञानं यथा विवक्षितान्यपदार्थं न बोधयेत् तथा विवक्षितपदार्थमपि । नैव बोधयेत्, निराकारत्वस्योभयत्र तुल्यत्वात् । तथा यदि घटज्ञान-तज्ज्ञानिनोर्भेद एव सम्मतस्तदा कर्मबन्धादीनामप्यभावं प्रसज्यमानं को वा रोढुं शक्नुयात् । तथाहि - यथा ज्ञानाज्ञान-सुखT. दुःखादिपरिणतिभिः सर्वथा भिन्नस्याऽऽकाशस्य बन्धादीनामभाव एव, एवं Y जीवस्याऽपि तदभाव एव प्रसज्येत । ननु घटज्ञानादग्निज्ञानाच्चाऽभिन्नो देवदत्तो यदि स्वयमेव घटोऽग्निर्वा ।' स्यात् तदा तु देवदत्तेऽपि जलाहरण-दाह-पाकाद्यर्थक्रियाः प्रसज्येयुः । न चैवं ) दृश्यते कदाचित् । अतो भवदुक्तं न समीचीनम् ।। अविचारितरमणीयमेतद् भवतो विचारणम् । यतो न सर्वेऽपि घटा जलाहरणे .Y उपयुज्यन्त एव, यथा गृहापवरकेऽनूर्ध्वं स्थापितो घटः । तथा, न हि सर्वेऽप्यग्नयो ) दाहपाकादिषूपयुक्ता दरीदृश्यन्ते, यथा भस्मच्छन्नोऽग्निः । लोकप्रसिद्धौ चैतौ घटाग्नी । अतो मङ्गलपदार्थज्ञानोपयोगादभिन्नस्तदुपयुक्तो जीव आगमतो भावमङ्गलं स्यादेव । नोआगमतस्तु भावमङ्गलं सुविशुद्धाः क्षायिकादयो भावाः । भाव एव मङ्गलमिति कृत्वा । उपलक्षणात् श्रुतज्ञानं (आगम) विना ज्ञानचतुष्टयं दर्शनं चारित्रं चेति त्रयोऽपि भावमङ्गलमेव । अत्रोभयत्राऽपि नोशब्दः सर्वनिषेधवाची । देशवाचिनं नोशब्दमाश्रित्य तु चैत्यवन्दनादौ नमस्कार-स्तोत्रादिषु नमस्कारज्ञानोपयोगोऽञ्जलिकरणादिक्रिया चेति द्वाभ्यामपि विमिश्रः परिणाम एव भावमङ्गलं नोआगमतः । अत्र हि नमस्कारादिज्ञानोपयोगरूप एवाऽऽगमोऽस्ति - इति नोशब्द र एकदेशवाची । अत्राऽऽह कश्चिन्ननु भाव एव विवक्षितार्थक्रियासाधकत्वाद् वस्तु ।। भावार्थशून्यास्तु शेषा अवस्त्वेवेति तैर्न किमपि कार्यम् । अतोऽलं तेषां प्ररूपणेन। मैंवं वादी भोः ! । यतः, किं भवता भावः सामान्येनैव वस्तुतया * स्वीक्रियते उत विशिष्टार्थक्रियासाधकत्वेन ? यदि सामान्येनैव, तदा सिद्धसाध्यता। y यतो नामादयस्त्रयोऽपि वस्तुनः पर्यायत्वाद् भावा एव । यथाऽविशिष्टमिन्द्र इत्युच्चरिते . नामादयश्चत्वारोऽपि प्रतीयन्ते, तथाहि - किमस्य नामेन्द्रो विवक्षितः स्थापनेन्द्रो । द्रव्येन्द्रो भावेन्द्रो वा ? एवं चैते चत्वारोऽपि सामान्यत इन्द्राख्यवस्तुतः पर्याया २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114