Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(चिन्तनधारा) (आस्वाद:
मुनिरत्नकीर्तिविजयः लोके लोका भिन्नभिन्नस्वरूपा भिन्नभिन्नैः कर्मभिर्मर्मभिद्भिः । . रम्यारम्यैश्चेष्टितैः कस्य कस्य तद्विद्वद्भिस्तुष्यते रुष्यते वा ॥
(शान्तसुधारसः १६/२) नानाविधाभिश्चेष्टाभिः सम्भृतोऽयं संसारः । न नित्यमेवाऽपि तु प्रतिक्षणं किञ्चिद् घटते प्रवर्तते च । तच्च सम्यगपि स्यादसम्यगपि स्यात्, रुचिकरमपि स्यादरुचिकरमपि वा । यावन्तो जीवास्तावन्तः स्वभावा यावन्तः स्वभावास्तावत्यः प्रवृत्तयो यावत्यश्च प्रवृत्तयस्तावत्तत्र वैविध्यं परिदृश्यते ।
___ एतां स्थिति मनसिकृत्यैवाऽस्मिन् श्लोके माध्यस्थ्यमुपदिष्टमस्ति, यद् - सपा Ka 'अस्मिन् लोके भिन्नभिन्नस्वरूपा लोका निवसन्ति । तेषां स्वरूपस्य भिन्नत्वे ।
हेतुरस्ति कर्म । तेनैव च हेतुना तेषां चेष्टितमपि नानाविधं रम्यारम्यं च प्रवर्तते -
एतज्जानन्तो विद्वांसः कस्य कस्य कां कां च चेष्टामधिकृत्य रोषं वा तोषं पर TO वाऽवलम्बेयुः ? अर्थात् कर्मवैचित्र्यं जानद्भिविद्वद्भिर्नैवाऽवलम्बनीयो रोषो वा Wi तोषो वा, किन्तु माध्यस्थ्यमेवाऽवलम्बनीयं तैः' इति ।
वस्तुतः स एव विद्वान् यो विना प्रयोजनं कुत्रचिदपि कस्यचिद् यत्किमपि । चेष्टितं दृष्ट्वा श्रुत्वा वा तद्गतां स्वकीयां रुचिमरुचिं वा रोषं वा तोषं वाऽभिव्यक्तुं न समुत्सहेत, गम्भीरो निर्लेपो मध्यस्थो वा स्थातुं प्रभवेच्च । यो नामैतादृशं पर माध्यस्थ्यमवलम्बितुं न शक्तः स कदाचित् पठितः स्यादपि न किन्तु विद्वान् पण्डितो वा । ज्ञानं यदा धैर्ये सत्त्वे च पर्यवसितं भवति तदैवैतादृशं विद्वत्त्वं प्रकटीभवति । यथाऽन्नस्य पर्यवसानं न केवलं भक्षणेऽपि तु पाचने तथा ज्ञानस्य
पर्यवसानमपि न केवलमवगमनेऽपि तु धैर्यसत्त्वादिगुणविकासेऽस्ति । धैर्यं सत्त्वमेव न च तस्य पाचनम् । माध्यस्थ्याय सत्त्वमपेक्षितम्।
घटनाश्चेष्टा वा प्रवत्य॑न्त एव, न ता रोद्धं शक्याः । नेत्रकर्णादीनामिन्द्रियाणां \ निमीलनमपि न शक्यं, न च तत्करणीयमपि, किन्तु मनोनिमीलनमेव तत्रोपायः । । मन:संयोगेनैव रोषतोषादिभावाः समुत्पद्यन्ते । सर्वमेतन्मनश्चाञ्चल्यपरिणामः । चाञ्चल्यं मनसः स्वभावो धैर्यं सत्त्वं चाऽऽत्मनः स्वभावः । आत्मनः स्वभावो ।
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114