Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एवेति नामादयस्त्रयोऽपि भावविशेषा एव । अतो भावस्य वस्तुत्वसाधनं भवतः सिद्धसाधनमेव ।
___यदि विशिष्टार्थक्रियासाधकत्वेन भावो वस्तु-इति भवतां मतं तदाऽपि नाऽस्माकं काऽपि क्षतिः । यतो यदि भावेन्द्रादिरूपो भाव एवाऽर्थक्रियासाधकस्तदा नामेन्द्रादिपर्याया अपि तत्साधका एव । द्रव्यत्वेन सर्वेषामपि पर्यायाणां परस्परमभिन्नत्वात् ।
एवं च चत्वारोऽपि नामादयो वस्त्वेव ।
अथवा नाम स्थापना द्रव्यं चेति त्रयोऽपि भावस्य कारणत्वाद भावस्यैवाऽङ्गभूता भाववद् वस्त्वेव ।
अथवा सामान्यतस्तु प्रत्येकं वस्तुनि चतुर्णामपि समकालं विद्यमानत्वाच्चत्वारोऽपि वस्त्वेव । यथा- वस्तुनो यदाभिधानं तन्नाम, तस्याऽऽकारस्तु V स्थापना, तत्कारणं च द्रव्यं, कार्यतापन्नं च तदेव भावः । अतो भाव एव वस्तु, नामादयस्त्रयस्तु भावार्थशून्या एवेति भवत्कथनं नैव युक्तम् ।
अत्र च मङ्गलवादे नयानाश्रित्य बहु वक्तव्यं, परं विस्तरभयान्नोच्यते इति।
kakkoregaonkakkar
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114