Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मङ्गलवादः
मुनिकल्याणकीर्तिविजयः
प्रारिप्सितशास्त्राणां निष्प्रत्यूहसमाप्त्यर्थं शिष्टाचारविषयत्वाच्च 'शास्त्रादौ मङ्गलं कर्तव्य'मिति प्रायशः सर्वेऽपि शास्त्रकारा निर्दिशन्ति । जैनागमेष्वपि मङ्गलं कर्तव्यताकत्वेन निर्दिष्टमस्ति । इह तु पूज्यैः श्रीमज्जिनभद्रगणिक्षमा श्रमणैः स्वप्रणीते श्रीविशेषावश्यकभाष्याभिधे महाग्रन्थे आगमानुसारं यन्मङ्गलस्वरूपवर्णनं कृतमस्ति, तदनुसृत्यैव किञ्चित् प्रस्तूयते ।
* ननु किमर्थं शास्त्रस्याऽऽदौ मङ्गलं कर्तव्यमित्याह
स्वाध्याय:
" श्रेयांसि बहुविघ्नानि भवन्ति महतामपि " इति वचनात् सर्वाण्यप्युत्तमकार्याणि प्रायो विघ्नप्रचुराणि भवन्ति, किं पुनः शास्त्रस्य ग्रहणं पठनं रचनं वा ? अतस्तत्र कर्तव्ये त्ववश्यं मङ्गलोपचारः आदरणीय एव । यथा महानिधि महाविद्यां वा प्राप्नुवन् कश्चिन्मङ्गलोपचारं कृत्वैव तद् गृह्णाति तथेदमपि शास्त्रं ग्रहीतव्यमिति ।
ननु क्व पुनस्तन्मङ्गलं कर्तव्यं ? किमर्थं वा ? इत्याह
मङ्गलं हि शास्त्रस्याऽऽदौ - प्रारम्भे, मध्यभागे तथा पर्यवसाने चेति त्रिषु स्थानेषु क्रियते । अथ प्रत्येकमपि किमर्थमिति करणफलमाह - प्रथमं हि मङ्गलं तावच्छास्त्रग्रहणेऽविघ्नतया पारगमनाय निर्दिष्टमस्ति । मङ्गले हि कृते शास्त्रार्थो निर्विघ्नतया गृह्येतेत्याशयः ।
Jain Education International
प्रथममङ्गलकरणानुभावाद् यः शास्त्रार्थो निर्विघ्नतया गृहीतस्तस्यैव स्थिरीकरणार्थं शास्त्रस्य मध्यभागे द्वितीयं मङ्गलं कर्तव्यताकत्वेन निर्दिष्टमस्ति । तथाऽन्त्यमपि मङ्गलं तस्यैव शास्त्रार्थस्य द्वितीयमङ्गलप्रभावात् स्थिरीभूतस्य शिष्यप्रशिष्यादिवंशेऽव्यवच्छिन्नतयाऽनुवर्तनाय कर्तव्यम् ।
अथ परः प्राह - ननु भवतः शास्त्रं मङ्गलं न प्राप्नोति । कुत: ? इत्याहमङ्गलकरणादेवेति । अमङ्गले हि मङ्गलं कर्तव्यम् । यत्तु स्वयमेवं मङ्गलं तत्र किं मङ्गलविधानेन ? न हि कश्चिच्चन्द्रमसं शुक्लीकर्तुं प्रयतते कदाचित् । अतो मङ्गलविधानादेव ज्ञायते यच्छास्त्रं न मङ्गलमिति ।
★ विशेषावश्यकभाष्ये सटीकाः गाथा: १२तः द्रष्टव्याः ।
१६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114