Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 28
________________ Kota अथ यदि मङ्गलस्याऽपि सतस्तस्य शास्त्रस्याऽन्यदपि मङ्गलं विधीयमानमभ्युपगम्यते तदा त्वनवस्थैवाऽत्र महद्दूषणमापतति । तथा हि-मङ्गलरूपस्याऽपि शास्त्रस्य यद्यन्यन्मङ्गलमुपादीयते तदा तस्याऽपि मङ्गलस्याऽन्यदपि मङ्गलं विधातव्यं, तस्याऽप्यन्यत, तस्याऽपि चाऽन्यदित्येवमनवस्थाऽऽपतन्ती न वारयितं शक्या । अथ च यदि मङ्गलस्याऽन्यन्मङ्गलं विधीयमानं नेष्यते तथा चाऽनवस्थाऽपि नेष्यते, तदा तु यथा मङ्गलमपि शास्त्रमन्यस्मिन्मङ्गलेऽकृते मङ्गलं न भवति तथेदमपि मङ्गलमन्यमङ्गलेऽकृते मङ्गलं न भवेत् । एवं च शास्त्रे यन्मङ्गलं विहितं तदन्यमङ्गलशून्यत्वान्मङ्गलत्वं न प्राप्नोति, 2 तस्य च मङ्गलत्वाभावे शास्त्रमपि न मङ्गलम् । तथा चेयमुभयतःपाशा रज्जुः । - __ अत्रोत्तरमाह - भोः ! शास्त्रादागमादेरर्थान्तरभूतं-भिन्नं यदि विधीयमानं Y () मङ्गलं स्यात् तदा भवता कल्पितममङ्गलत्वानवस्थादिदूषणजातं सार्थकमपि भवेत्। 0 किन्तु शास्त्रमेव यदि मङ्गलस्वरूपमभ्युपगम्यते तद्भिन्नं च मङ्गलं नैवोपादीयते । तदा तु हन्त ! किममङ्गलं का वाऽनवस्था भवन्ती भवता प्रेर्यते ? नन्वाकाशरोमन्थनमेवेदं भवतः । पुनरपि परः प्रेरयति - ननु यदि शास्त्रं स्वयमेव मङ्गलं तदा 'तं मंगलमाईए' इत्यादिवचनात् तत्र मङ्गलं किमित्युपादीयते ? तदाऽऽह - सत्यम् - किन्तु तदुत्तरं त्वग्रे वक्ष्यतेऽतो मा त्वरिष्ट । अथ च शास्त्रादर्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य दूषणानि निराकुर्वन्नाह शास्त्रकारः - भो वादिन् ! यदि शास्त्रादर्थान्तरभूतमपि मङ्गलमभ्युपगम्यते । तदाऽपि शास्त्रस्याऽमङ्गलत्वं नाऽस्ति नाऽप्यनवस्था काचित् । यतः मङ्गलं तु . सदाऽपि प्रदीप इव स्व-परेषामनुग्रहकृदेव वर्तते । यथा हि प्रदीपः स्वमपि । प्रकाशयन् स्वानुग्रहकारी भवति, परितो वर्तमानांश्च पदार्थान् प्रकाशयन् परेषामप्यनुग्राहको भवति परं न स्वप्रकाशने प्रदीपान्तरमप्यपेक्षते । यथा वा लवणं X. रसवर्ती मधुरयन् स्वमपि च सलवणं करोत्येव न तु तदर्थं लवणान्तरमप्यपेक्षते। एवं मङ्गलमपि शास्त्रादर्थान्तरभूतत्वेऽपि निजसामर्थ्याच्छास्त्रे स्वस्मिन्नपि च मङ्गलतामादधानं स्वपरानुग्रहकृद् भवत्येव, न तु तत्र मङ्गलान्तरमप्यपेक्षते । अतो मङ्गलान्मङ्गलरूपताप्राप्तौ शास्त्रस्य नाऽमङ्गलरूपता नाऽपि च स्वमङ्गलार्थमन्यमङ्गलानपेक्षत्वादनवस्थाऽपि काचिदिति । - १७ For Private & Personal Use Only Jain Education International www.janelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114