Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ * (३) क्वचित्प्रलीनम् दृप्तः कदाचिदासं तृप्तः कदाचिदासम् चञ्चन्मनोभ्रमेऽस्मिन् कृत्यं वचित्प्रलीनम् ॥१॥ आकाशमपि मम स्यात्पातालमपि मम स्यात् । स्याद्वादकल्पनेऽस्मिन् हर्म्यं वचित्प्रलीनम् ॥२॥ कुचपुडि भवेदिहादौ गर्बा ततश्च जात्रा । . रङ्गस्य दुर्हठेऽस्मिन् नृत्यं वचित्प्रलीनम् ॥३॥ आम्रोऽयमिति ममोक्तिश्चिञ्चेयमिति तदोक्तिः । अस्मिन् मृषोक्तिदम्भे सत्यं वचित्प्रलीनम् ॥४॥ मत्तो भयं तवाऽभूत्त्वत्तो भयं ममाऽभूत् । नूनं मिथो भयेऽस्मिन् सख्यं क्वचित्प्रलीनम् ॥५॥ तीर्थाटनं करिष्ये दानादिकं करिष्ये । अस्मिन् बृहद्भविष्ये भव्यं वचित्प्रलीनम् ॥६॥ भासे तवाऽनुरागो मम चाऽपि कालिदासे । प्रतियोगिरागबन्धे काव्यं क्वचित्प्रलीनम् ॥७॥ ह्यो वामनेऽद्य रामे श्वश्वाऽपि वासुदेवे । क्षणभङ्गुराग्रहेऽस्मिन् धैर्यं क्वचित्प्रलीनम् ॥८॥ दृष्ट्वा नितान्तदैन्यं भैक्ष्यञ्च बालकानाम् । पठतोऽभिराजिसूनोर्गेयं चित्प्रलीनम् ॥९॥ म १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114