________________
A+RACKAGANAGAR
नित्यमालोको-दर्शनं दृश्यमानता येषां तानि नित्यालोकानि न तु जातुचिदपि तमसाऽऽश्रीयन्त इति भावः, कथं नित्यालोकानि ? इति हेतुद्वारेण विशेषणमाह-नित्योयोतानि, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति हेतोः प्रथमा, ततोऽयमर्थ:यस्मान्नित्यं-सततमप्रतिघमुद्द्योतो-दीप्यमानता येषां तानि(तथा)ततो नित्यालोकानि, सततमुद्द्योतमानता च परसापेक्षाऽपि संभाव्येत यथा मेरोः स्फटिककाण्डस्य सूर्यरश्मिसम्पर्कतः, तत आह-स्वयंप्रभाणि स्वयं सूर्यादिप्रभावत् देदीप्यमानता येषां तानि तथा, एवं निरन्तर तावद्वक्तव्यं यावदनुत्तरविमानानि ॥ सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्विमानानि कीरशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह-गौतम! 'से जहानामए कोट्टपुडाण वा चंपकपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुयापुडाण वा जाईपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा हाणमजियापुडाण वा केयइपुडाण वा पाडलिपुडाण वा नोमालियापुडाण वा वासपुडाण वा कप्पूरपुडाण वा अणुवायंसि उभिजमाणाण वा४ कुट्टिज्जमाणाण वा रुविजमाणाण वा उक्कीरिजमाणाण वा विक्खरिजमाणाण वा परिभुजमाणाण वा परिभाइज्जमाणाण वा भंडाओ वा भंडं साहरिजमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिव्वुइकरा सव्वतो समंता गंधा अभिनिस्सरंति, भवे एयारूवे सिया?, नो इणटे समढे, ते णं विमाणा एत्तो इद्रुतरा चेव कंततरा चेव मणुन्नतरा चेव मणामतरा चेव गंधेणं पण्णत्ता' अस्य व्याख्या पूर्ववत् , एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ॥ सम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीदृशानि स्पर्शेन प्रज्ञप्तानि ?, भगवानाह-गौतम! 'से जहानामए अइणेइ वा रूतेइ वा | बूरेइ वा नवणीएइ वा हंसगम्भतूलीइ वा सिरीसकुसुमनिचए वा पवालकुसुमपत्तरासीइ वा, भवे एयारूवे?, नो इणद्वे समढे, ते णं
Jain Education in
For Private Personal use only
| Jainelibrary.org