Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 930
________________ श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ॥ ४६३ ॥ Jain Education Int थमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकं उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं प्रथमसमयमनुष्यस्य जधन्यतो द्वे क्षुल्लकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकाल:, अप्रथमसमयमनुष्यस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकमुत्कर्षतो | वनस्पतिकालः, प्रथमसमयदेवस्य जघन्यतो दश वर्षसहस्राणि अन्तर्मुहूर्त्ताभ्यधिकानि उत्कर्षतो वनस्पतिकालः, अप्रथमसमयदेवस्य | जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं ॥ सम्प्रयल्पबहुत्वचिन्ता, तत्राल्पबहुत्वान्यत्र चत्वारि तद्यथा - प्रथमं प्रथमसमयनैरयिकादीनां द्वितीयमप्रथमसमयनैरयिकादीनां तृतीयं प्रथमाप्रथमसमयनैरयिकादीनां प्रत्येकं, चतुर्थ सर्वसमुदायेन तत्र प्रथममिदम् - सर्वस्तोकाः प्रथमसमयमनुष्याः, तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्यः प्रथमसमयदेवा असङ्ख्येयगुणाः, तेभ्यः प्रथमसमयतिर्यग्योनिका असङ्ख्येयगुणाः, नारकादिशेषगतित्रयादागतानामेव प्रथमसमये वर्त्तमानानां | प्रथमसमयतिर्यग्योनिकत्वात् । द्वितीयमेवम् - सर्वस्तोका अप्रथमसमयमनुष्याः, तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्योऽप्रथ| मसमयदेवा असङ्ख्येयगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् । तृतीयमेवम्- सर्वस्तोकाः प्रथमसमयनैरयिका अप्रथमसमयनैरयिका असङ्ख्येयगुणाः, तथा प्रथमसमयतिर्यग्योनिकाः सर्वस्तोकाः अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, तथा सर्वस्तोकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्या असङ्ख्येयगुणाः, तथा सर्वस्तोकाः प्रथमसमयदेवा: अप्रथमसम यदेवा असङ्ख्येयगुणाः । सर्वसमुदायगतं चतुर्थमेवम् सर्वस्तोकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्या असङ्ख्येयगुणाः, तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्योऽपि प्रथमसमयदेवा असल्यगुणाः, तेभ्योऽपि प्रथमसमयतिर्यश्वोऽसङ्ख्येयगुणाः, तेभ्योऽपि अप्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्योऽप्यप्रथम समयदेवा असङ्ख्येयगुणाः, तेभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽप्रथमसमय For Private & Personal Use Only |९ प्रतिपत्तौ सर्वजीवनवविध ता प्रथमा प्रथमसम यनारकादिसिद्धैः उद्देशः २ सू० २७० ॥ ४६३ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 928 929 930 931 932 933 934 935 936 937 938