Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 905
________________ मसयपुहुत्तं सातिरेगं, अवेदगो जहा हेहा । अप्पाबहु० सव्वत्थोवा पुरिसवेदगा इत्थिवेदगा संखेज्जगुणा अवेदगा अणंतगुणा नपुंसगवेयगा अणंतगुणा ॥ (सू० २५८) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-स्त्रीवेदकाः पुरुषवेदका नपुंसकवेदका अवेदकाः । कायस्थितिचिन्तायां स्त्रीवेदकस्य 'एगेणं आएसेणं जह. एगं समय'मित्यादि पूर्व त्रिविधप्रतिपत्तौ प्रपञ्चतो व्याख्यातमिति न भूयो व्याख्यायते, पुरुषवेदस्य जघन्यतोऽन्तर्मुहूर्त, स्त्रीवेदादिभ्य उद्धृत्य पुरुषवेदानामन्तर्मुहूर्त जीवित्वा भूयः स्त्रीवेदादिषु कस्यापि गमनात् । अथ यथा स्त्रीवेदस्य नपुंसकस्य वा उपशमश्रेणावुपशमे जाते तदनन्तरमेकं समयं तं वेदमनुभूय मृतस्यैकसमयता व्याव येते तथा पुरुषवेदस्यापि जघन्यत एकसमयता कस्मान्न भवति ?, उच्यते, उपशमश्रेण्यन्तर्गतो मृतः सर्वोऽपि पुरुषवेदेषूत्पद्यते नान्य& वेदेषु, तेन स्त्रीवेदस्य नपुंसकवेदस्य चोक्तप्रकारेण जघन्यत एकसमयता लभ्यते, न पुरुषवेदस्य, तस्य जन्मान्तरेऽपि सातत्येन गमनात् , ततो जघन्यं पुरुषवेदस्योपदर्शितेनैव प्रकारेणेत्यन्तर्मुहूर्त, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तच्च देवमनुष्यतिर्यग्भवभ्रमणेन ४ वेदितव्यं, नपुंसकवेदो जघन्यत एक समयं, स चैकः समय उपशमश्रेणौ वेदोपशमानन्तरमेकं समयं नपुंसकवेदमनुभूय मृतस्य परि-13 भावनीयो मरणानन्तरं पुरुषवेदेषूत्पादात्, उत्कर्षतो वनस्पतिकालः, स च प्रागनेकधा दर्शितः, अवेदको द्विविधः-साद्यपर्यवसितः क्षीणवेदः सादिसपर्यवसित उपशान्तवेदः, स च जघन्यत एक समयं, द्वितीये समये मरणतो देवगतौ पुरुषवेदसम्भवात् , उत्कर्षतो-४ अन्तर्मुहूर्त, तदनन्तरं मरणत: पुरुषवेदसान्त्या प्रतिपाततो येन वेदेनोपशमश्रेणिं प्रतिपन्नस्तद्वेदोदयापत्त्या सवेदकत्वात् । अन्तरचिन्तायां स्त्रीवेदस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, तच्चोपशान्तवेदे पुनरन्तर्मुहून स्त्रीवेदोदयापत्त्या, यदिवा स्त्रीभ्य उद्धृत्य पुरुषवेदेषु नपुं जी० ७६ Jain Education Inter For Private Personal use only nelibrary.org

Loading...

Page Navigation
1 ... 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938