Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि०
मलयगि
यावृत्तिः
॥ ४५३ ॥
Jain Education
यतत्वलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त्त देशोनम्, एतावतः कालादूर्द्ध पूर्वमवाप्तसंयमस्य नियमतः संयमलाभात्, अनाद्यपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं तस्य प्रतिपातासम्भवात्, सादिसपर्यवसितस्य जघन्यत एकं समयं स चैकसमयः प्राग्व्यावर्णितः संयतसमयः, एवमुत्कर्षतो देशोना पूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालस्य संयतासंयतकालस्य वा उत्कर्षतोऽप्येतावत्प्रमाणत्वात् संयतासंयतस्य जघ - न्यतोऽन्तर्मुहूर्त्त तद्भावपाते एतावता कालेन तल्लाभसिद्धेः, उत्कर्षतः संयतवत् त्रितयप्रतिषेधवर्त्तिनः सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसिततया सदा तद्भावापरित्यागात् || अल्पबहुत्वमाह - 'एएसि ण' मित्यादि, सर्वस्तोका जीवाः संयताः, सङ्खयेयकोटीकोटीप्रमाणत्वात् संयतासंयंता असङ्ख्येयगुणाः, असङ्ख्यानां तिरश्चां देशविरतिभावात् त्रितयप्रतिषेधवर्त्तिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽसंयता अनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् । उपसंहारमाह - 'सेत्त 'मित्यादि । उक्ताश्चतुविधा: सर्वजीवाः, सम्प्रति पञ्चविधानाह—
तत्थ जे ते एवमाहंसु पंचविधा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजा - कोहकसायी माणकसायी मायाकसायी लोभकसायी अकसायी ॥ कोहकसाई माणकसाई मायाकसाई णं जह० अंतो. उक्को० अंतोमु०, लोभकसाइस्स जह० एकं स० उक्को० अंतो०, अकसाई दुविहे जहा ट्ठा ॥ कोहकसाई माणक साईमाया कसाईणं अंतरं जह० एक० स० उक्को० अंतो० लोहकसाइस अंतरं जह० अंतो० उक्को० अंतो०, अकसाई तहा जहा हेट्ठा ॥ अप्पाबहु - अकसाइणो
For Private & Personal Use Only
९ प्रतिपत्तौ सर्वजीव
चातुर्विध्ये
चक्षुर्वर्श
नादि
उद्देशः २
सू० २६१
॥ ४५३ ॥
jainelibrary.org

Page Navigation
1 ... 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938