SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि यावृत्तिः ॥ ४५३ ॥ Jain Education यतत्वलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त्त देशोनम्, एतावतः कालादूर्द्ध पूर्वमवाप्तसंयमस्य नियमतः संयमलाभात्, अनाद्यपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं तस्य प्रतिपातासम्भवात्, सादिसपर्यवसितस्य जघन्यत एकं समयं स चैकसमयः प्राग्व्यावर्णितः संयतसमयः, एवमुत्कर्षतो देशोना पूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालस्य संयतासंयतकालस्य वा उत्कर्षतोऽप्येतावत्प्रमाणत्वात् संयतासंयतस्य जघ - न्यतोऽन्तर्मुहूर्त्त तद्भावपाते एतावता कालेन तल्लाभसिद्धेः, उत्कर्षतः संयतवत् त्रितयप्रतिषेधवर्त्तिनः सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसिततया सदा तद्भावापरित्यागात् || अल्पबहुत्वमाह - 'एएसि ण' मित्यादि, सर्वस्तोका जीवाः संयताः, सङ्खयेयकोटीकोटीप्रमाणत्वात् संयतासंयंता असङ्ख्येयगुणाः, असङ्ख्यानां तिरश्चां देशविरतिभावात् त्रितयप्रतिषेधवर्त्तिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽसंयता अनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् । उपसंहारमाह - 'सेत्त 'मित्यादि । उक्ताश्चतुविधा: सर्वजीवाः, सम्प्रति पञ्चविधानाह— तत्थ जे ते एवमाहंसु पंचविधा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजा - कोहकसायी माणकसायी मायाकसायी लोभकसायी अकसायी ॥ कोहकसाई माणकसाई मायाकसाई णं जह० अंतो. उक्को० अंतोमु०, लोभकसाइस्स जह० एकं स० उक्को० अंतो०, अकसाई दुविहे जहा ट्ठा ॥ कोहकसाई माणक साईमाया कसाईणं अंतरं जह० एक० स० उक्को० अंतो० लोहकसाइस अंतरं जह० अंतो० उक्को० अंतो०, अकसाई तहा जहा हेट्ठा ॥ अप्पाबहु - अकसाइणो For Private & Personal Use Only ९ प्रतिपत्तौ सर्वजीव चातुर्विध्ये चक्षुर्वर्श नादि उद्देशः २ सू० २६१ ॥ ४५३ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy