SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ Jain Education In असंजयनोसंजया संजए सातीए अपज्जवसिए, संजयस्स संजयासंजयस्स दोपहवि अंतरं जह० अंतोमु० उक्को० अबहुं पोग्गलपरियहं देसूणं, असंजयस्स आदिदुवे णत्थि अंतरं, सातीयस्स सपज्जवसियस्स जह० एकं स० उक्को० देसूणा पुव्वकोडी, चउत्थगस्स णत्थि अंतरं ॥ अप्पाबहु० सव्वत्थोवा संजयासंजया संजया असंखेज्जगुणा णोसंजयणोअसंजयणोसंजया संजया अनंतगुणा असंजया अनंतगुणा ॥ सेत्तं चउव्विहा सव्वजीवा पण्णत्ता ( सू० २६० ) 'अहवे'त्यादि, ' अथवा ' प्रकारान्तरेण सर्वजीवाश्चतुर्विधाः प्रज्ञप्तास्तद्यथा - संयताः असंयताः संयतासंयताः नोसंयतानोअसंयतानो संयतासंयताः ॥ कायस्थितिमाह - 'संजए णं भंते!' इत्यादि, संयतो जघन्यत एकं समयं सर्वविरतिपरिणामसमयानन्त रसमय एव कस्यापि मरणात् उत्कर्षतो देशोना पूर्वकोटी, असंयतस्त्रिविधः - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितो यो न जातुचिदपि संयमं प्राप्स्यति, अनादिसपर्यवसितो यः संयमं लप्स्यति, लब्धेन च तेनैव संयमेन सिद्धिं गन्ता, सादिसपर्यवसितो सर्वविरतेर्देशविरतेर्वा परिभ्रष्टः, स हि सादिः नियमभाविसपर्यवसितत्वापेक्षया च सपर्यवसितः, स च जघन्येनान्तर्मुहूर्त्त तावता कालेन कस्यापि संयतत्वलाभात् 'तिन्हं सहस्स पुहुत्त 'मित्यादि वचनात् उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्धं पुद्गलपरावर्त्त देशोनं, संयतासंयतो जघन्येनान्तर्मुहूर्त्त, संयतासंयतत्वप्रतिपत्तेः भङ्गबहुलतया जघन्यतोऽप्येतावन्मात्रकालप्रमाणत्वात् उत्कर्षतो देशोना पूर्वकोटी, बालकाले तदभावात् त्रितयप्रतिषेधवर्त्ती सिद्धः, स च साद्य पर्यवसित एव । अन्तरमाह - 'संजयस्स ण' मित्यादि, संयतस्य जघन्येनान्तरमन्तर्मुहूर्त्त तावता कालेन पुनः कस्यापि सं For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy