Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
न्तरं जघन्यत एकः समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः, प्रथमे समये कार्मणशरीरोपेतत्वात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, उत्कृष्टो वैक्रियकाल इति भावः, वैक्रियशरीरिणोऽन्तरं जघन्यतोऽन्तर्मुहूर्त, सकृद्वैक्रियकरणे एतावता कालेन पुनक्रियकरणात् मानवदेवेषु भावात् , उत्कर्षतो वनस्पतिकाल: प्रकट एव, आहारकशरीरिणो जघन्येनान्तमुहूर्त, सकृत्करणे एतावता कालेन पुनः करणात् , उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त, तैजसकार्मणशरीरयोर्द्विधाऽपि नास्त्यन्तरं । अल्पबहुखचिन्तायां सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपृथक्त्वेन प्राप्यमाणत्वात् , तेभ्यो वैक्रियशरीरिणोऽसयेयगुणाः, देवनारकाणां कतिपयगर्भजतिर्यपञ्चेन्द्रियमनुष्यवायुकायिकानां च वैक्रियशरीरित्वात् , तेभ्य औदारिकशरीरिणो| ऽसयेयगुणाः, इहानन्तानामपि जीवानां यस्मादेकमौदारिकं शरीरं ततः स एक औदारिकशरीरी परिगृह्यते ततोऽसलियेयगुणा एवौदारिकशरीरिणो नानन्तगुणाः, आह च मूलटीकाकार:-"औदारिकशरीरिभ्योऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वात् , औदारिकशरीरिणां च शरीरापेक्षयाऽसद्ध्येयत्वा"दिति, तेभ्योऽशरीरिणोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यस्तैजसशरीरिणः कार्मणशरीरिणश्वानन्तगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तैजसकार्मणयोः परस्पराविनाभावात् , इह तैजसशरीरं कार्मणशरीरं |च निगोदेष्वपि प्रतिजीवं विद्यत इति सिद्धेभ्योऽप्यनन्तगुणत्वम् । उपसंहारमाह-'सेत्तं छविहा सव्वजीवा पन्नत्ता' ॥ उक्ताः षडिधाः सर्वजीवाः, सम्प्रति सप्तविधानाह- .
तत्थ जे ते एवमाहंसु सत्तविधा सव्वजीवा पं० ते एवमाहंसु, तंजहा-पुढविकाइया आउकाइंया तेउकाइया वाउकाइया वणस्सतिकाइया तसकाइया अकाइया । संचिट्ठणंतरा जहा हेट्ठा।
जी०७७
Jain Education in
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938