SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ न्तरं जघन्यत एकः समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः, प्रथमे समये कार्मणशरीरोपेतत्वात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, उत्कृष्टो वैक्रियकाल इति भावः, वैक्रियशरीरिणोऽन्तरं जघन्यतोऽन्तर्मुहूर्त, सकृद्वैक्रियकरणे एतावता कालेन पुनक्रियकरणात् मानवदेवेषु भावात् , उत्कर्षतो वनस्पतिकाल: प्रकट एव, आहारकशरीरिणो जघन्येनान्तमुहूर्त, सकृत्करणे एतावता कालेन पुनः करणात् , उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त, तैजसकार्मणशरीरयोर्द्विधाऽपि नास्त्यन्तरं । अल्पबहुखचिन्तायां सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपृथक्त्वेन प्राप्यमाणत्वात् , तेभ्यो वैक्रियशरीरिणोऽसयेयगुणाः, देवनारकाणां कतिपयगर्भजतिर्यपञ्चेन्द्रियमनुष्यवायुकायिकानां च वैक्रियशरीरित्वात् , तेभ्य औदारिकशरीरिणो| ऽसयेयगुणाः, इहानन्तानामपि जीवानां यस्मादेकमौदारिकं शरीरं ततः स एक औदारिकशरीरी परिगृह्यते ततोऽसलियेयगुणा एवौदारिकशरीरिणो नानन्तगुणाः, आह च मूलटीकाकार:-"औदारिकशरीरिभ्योऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वात् , औदारिकशरीरिणां च शरीरापेक्षयाऽसद्ध्येयत्वा"दिति, तेभ्योऽशरीरिणोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यस्तैजसशरीरिणः कार्मणशरीरिणश्वानन्तगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तैजसकार्मणयोः परस्पराविनाभावात् , इह तैजसशरीरं कार्मणशरीरं |च निगोदेष्वपि प्रतिजीवं विद्यत इति सिद्धेभ्योऽप्यनन्तगुणत्वम् । उपसंहारमाह-'सेत्तं छविहा सव्वजीवा पन्नत्ता' ॥ उक्ताः षडिधाः सर्वजीवाः, सम्प्रति सप्तविधानाह- . तत्थ जे ते एवमाहंसु सत्तविधा सव्वजीवा पं० ते एवमाहंसु, तंजहा-पुढविकाइया आउकाइंया तेउकाइया वाउकाइया वणस्सतिकाइया तसकाइया अकाइया । संचिट्ठणंतरा जहा हेट्ठा। जी०७७ Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy