Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Intern
परावर्त्त देशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्यवसितत्वान्नास्त्यन्तरं, अज्ञा| निनोऽनाद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं भूयस्तद्भावायोगात् पुनरज्ञानित्वं हि भ वत् सादिसपर्यवसितं भवति न त्वनादिसपर्यवसितं, सादिसपर्यवसितस्य जघन्यतोऽन्तर्मुहूर्त्त तावता कालेन भूयोऽपि कस्याप्यज्ञानित्वप्राप्तेः, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि । अल्पबहुत्वचिन्तायां सर्वस्तोका मनः पर्यवज्ञानिनश्चारित्रिणामेव केषाश्चित्तद्भावात् 'तं संजयस्स सब्वप्पमायरहियस्स विविधरिद्धिमतो' इति वचनात् तेभ्योऽवधिज्ञानिनोऽसङ्ख्यातगुणाः, देवनारकाणामप्यवधिज्ञानभावात्, तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च द्वयेऽपि विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, आभिनिबोधिक श्रुतज्ञानयोः परस्परविनाभावात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽज्ञानिनोऽनन्तगुणाः, वन|स्पतिकायानां सिद्धेभ्योऽप्यनन्तत्वात् ॥ ' अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण षडिधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - एकेन्द्रिया द्वीन्द्रियात्रीन्द्रियाश्चतुरिन्द्रियाः पश्चेन्द्रिया अनिन्द्रियाः । एतेषां कार्यस्थितिरन्तर मल्पबहुत्वं प्रागेव भावितम् ॥
अहवा छविवहा सव्वजीवा पण्णत्ता तंजहा - ओरालियसरीरी वेडव्वियसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी ॥ ओरालियसरीरी णं भंते ! कालओ केवचिरं होइ ?, जहपणेणं खड्डागं भवगहणं दुसमऊणं, उक्कोसेणं असंखिजं कालं जाव अंगुलस्स असंखेज्जतिभागं, asoorसरीरी जह० एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई, आहारगसरीरी जह० अंतो० उक्को० अंतो०, तेयगसरीरी दुविहे - अणादीए वा अपजवसिए अणादीए
For Private & Personal Use Only
Pinelibrary.org

Page Navigation
1 ... 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938