Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 907
________________ सणिस्स णत्थि अंतरं । अप्पाबहुयं सव्वत्थोवा ओहिदसणी चक्खुदंसणी असंखेजगुणा केवल दसणी अणंतगुणा अचखुदंसणी अणंतगुणा ॥ (सू० २५९) । 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-चक्षुर्दर्शनिनोऽचक्षुर्दर्शनिनोऽवधिदर्शनिनः केवलदर्श| निनः ॥ अमीषां कायस्थितिमाह-चक्खुदसणी णं भंते !' इत्यादि, चक्षुर्दर्शनी जघन्यतोऽन्तर्मुहूर्त, अचक्षुर्दर्शनिभ्य उद्धृत्य च-15 क्षुदर्शनिपुत्पद्य तावन्तं कालं स्थित्वा पुनरचक्षुर्दर्शनिषु कस्यापि गमनात् , उत्कर्षत: सागरोपमसहस्रं सातिरेकं, अचक्षुदर्शनी द्विविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो भव्यविशेषो यः सेत्स्यति, अवधिदर्शनी जघन्यत एक समयं, अवधिप्रतिपत्त्यनन्तरमेव कस्यापि मरणतो मिथ्यात्वगमनतो दुष्टाध्यवसायभावतोऽवधिप्रतिपातात् , उत्कर्षतो द्वे षषष्टी सागरोपमाणां सातिरेके, तत्रैका षट्षष्टिः एवं-विभङ्गज्ञानी तिर्यपञ्चेन्द्रियो मनुष्यो वाऽधः सप्तम्यामुत्पन्नः, तत्र त्रयस्त्रिंशतं सागरोपमाणि स्थित्वा तत्र च प्रत्यासन्ने उद्वर्त्तनाकाले सम्यक्त्वं प्राप्य पुनः परित्यजति ततोऽप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यक्षु जातस्ततः पुनरप्यप्रतिपतितविभङ्ग एवाध: सप्तम्यामुत्पन्नः, तत्र च त्रयस्त्रिंशतं सागरोपमाणि स्थित्वा पुनरप्युद्वर्त्तनाकाले प्रत्या-11 सन्ने सम्यक्त्वं प्राप्य पुनः परित्यजति, ततः पुनरप्यप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यक्षुपजातो, वेलाद्वयमपि चाविग्रहेणाधः सप्तम्यास्तिर्यक्षुत्पादयितव्यः, विग्रहे विर्भङ्गस्य प्रतिषेधात् , उक्तं च-"विभंगनाणी पंचेंदियतिरिक्खजोणिया मणूया य आहारगा नो अणाहारगा" इति, नन्वपान्तराले किमर्थं सम्यक्त्वं प्रतिपाद्यते ?, उच्यते, विभङ्गस्य स्तोककालावस्थायित्वात् , उक्तश्च-"विभं|गनाणी जह० एगं समयं उक्को० तेत्तीसं सागरोवमाई देसूणाए पुवकोडीए अब्भहियाई"ति, तदनन्तरमप्रतिपतितविभङ्ग एव मनु 4SARAN ainelibrary.org Jain Education inte For Private Personal Use Only M *

Loading...

Page Navigation
1 ... 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938