________________
मसयपुहुत्तं सातिरेगं, अवेदगो जहा हेहा । अप्पाबहु० सव्वत्थोवा पुरिसवेदगा इत्थिवेदगा
संखेज्जगुणा अवेदगा अणंतगुणा नपुंसगवेयगा अणंतगुणा ॥ (सू० २५८) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-स्त्रीवेदकाः पुरुषवेदका नपुंसकवेदका अवेदकाः । कायस्थितिचिन्तायां स्त्रीवेदकस्य 'एगेणं आएसेणं जह. एगं समय'मित्यादि पूर्व त्रिविधप्रतिपत्तौ प्रपञ्चतो व्याख्यातमिति न भूयो व्याख्यायते, पुरुषवेदस्य जघन्यतोऽन्तर्मुहूर्त, स्त्रीवेदादिभ्य उद्धृत्य पुरुषवेदानामन्तर्मुहूर्त जीवित्वा भूयः स्त्रीवेदादिषु कस्यापि गमनात् । अथ यथा स्त्रीवेदस्य नपुंसकस्य वा उपशमश्रेणावुपशमे जाते तदनन्तरमेकं समयं तं वेदमनुभूय मृतस्यैकसमयता व्याव
येते तथा पुरुषवेदस्यापि जघन्यत एकसमयता कस्मान्न भवति ?, उच्यते, उपशमश्रेण्यन्तर्गतो मृतः सर्वोऽपि पुरुषवेदेषूत्पद्यते नान्य& वेदेषु, तेन स्त्रीवेदस्य नपुंसकवेदस्य चोक्तप्रकारेण जघन्यत एकसमयता लभ्यते, न पुरुषवेदस्य, तस्य जन्मान्तरेऽपि सातत्येन गमनात् ,
ततो जघन्यं पुरुषवेदस्योपदर्शितेनैव प्रकारेणेत्यन्तर्मुहूर्त, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तच्च देवमनुष्यतिर्यग्भवभ्रमणेन ४ वेदितव्यं, नपुंसकवेदो जघन्यत एक समयं, स चैकः समय उपशमश्रेणौ वेदोपशमानन्तरमेकं समयं नपुंसकवेदमनुभूय मृतस्य परि-13 भावनीयो मरणानन्तरं पुरुषवेदेषूत्पादात्, उत्कर्षतो वनस्पतिकालः, स च प्रागनेकधा दर्शितः, अवेदको द्विविधः-साद्यपर्यवसितः क्षीणवेदः सादिसपर्यवसित उपशान्तवेदः, स च जघन्यत एक समयं, द्वितीये समये मरणतो देवगतौ पुरुषवेदसम्भवात् , उत्कर्षतो-४ अन्तर्मुहूर्त, तदनन्तरं मरणत: पुरुषवेदसान्त्या प्रतिपाततो येन वेदेनोपशमश्रेणिं प्रतिपन्नस्तद्वेदोदयापत्त्या सवेदकत्वात् । अन्तरचिन्तायां स्त्रीवेदस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, तच्चोपशान्तवेदे पुनरन्तर्मुहून स्त्रीवेदोदयापत्त्या, यदिवा स्त्रीभ्य उद्धृत्य पुरुषवेदेषु नपुं
जी० ७६
Jain Education Inter
For Private
Personal use only
nelibrary.org