________________
श्रीजीवाजीवाभि०
मलयग्निरीयावृत्तिः
॥ ४५० ॥
Jain Education I
तनायोगतो महाऽनर्थप्रसङ्गादिति" एवं च ये सम्प्रति दुष्पमानुभावतः प्रवचनस्योपप्लवाय धूमकेतव इवोत्थिताः सकलकालसुकराव्यवच्छिन्नसुविधिमार्गानुष्ठातृसुविहितसाधुषु मत्सरिणस्तेऽपि वृद्धपरम्परायातसम्प्रदायादवसेयं सूत्राभिप्रायमपास्योत्सूत्रं प्ररूपयन्तो | महाशातनाभाज: प्रतिपत्तव्या अपकर्णयितव्याश्च दूरतस्तत्त्ववेदिभिरिति कृतं प्रसङ्गेन । सम्प्रत्यल्पबहुत्वमाह - 'एएसि ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोका मनोयोगिनो, देवनारकगर्भजतिर्यक्पञ्चेन्द्रियमनुष्याणामेव मनोयोगित्वात्, तेभ्यो वाग्योगिनोऽसयेयगुणाः, द्वित्रिचतुरसञ्ज्ञिपश्चेन्द्रियाणां वाग्योगित्वात्, अयोगिनोऽनन्तगुणा: सिद्धानामनन्तत्वात्, तेभ्यः काययोगिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥
अहवा चव्विा सव्वजीवा पण्णत्ता, तंजहा - इत्थियेयगा पुरिसवेयगा नपुंसगवेयगा अवेयगा, इत्थवेयगा णं भंते! इत्थिवेदपत्ति कालतो केवचिरं होति ?, गोयमा ! (एगेण आएसेण० ) पलियस दसुत्तरं अट्ठारस चोदस पलितपुहुत्तं, समओ जहण्णो, पुरिसवेदस्स जह० अंतो० उक्को० सागरोवमसयपुहत्तं सातिरेगं, नपुंसगवेदस्स जह० एक्कं समयं उक्को० अनंतं कालं वसतिकालो । अवेयए दुबिहे प० - सातीए वा अपज्जवसिते सातीए वा सपज्जबसिए से जह० एक स० उक्को० अंतोमु० । इत्थिवेदस्स अंतरं जह० अंतो० उक्को० वणस्सतिकालो, पुरिसवेदस्स जह० एवं समयं उक्को० वणस्सइकालो, नपुंसगवेदस्स जह० अंतो० उक्को० सागरोव
For Private & Personal Use Only
९ प्रतिपत्तौ सर्वजीव
त्रैविध्ये
स्त्रीवेदादि
उद्देशः २
सू० २५८
।। ४५० ॥
w.jainelibrary.org