________________
Jain Education Inte
भाषकवत् मनोयोगरहितवाग्योगवानेव वाग्योगी द्वीन्द्रियादिः, जघन्यत एकं समयमुत्कर्षतोऽन्तर्मुहूर्त्त एतदपि सूत्रं विशिष्टवाग्द्रव्यग्रहणापेक्षमवसातयं, काययोगी वाग्योगमनोयोगविकल एकेन्द्रियादिः, जघन्यतोऽन्तर्मुहूर्त्त द्वीन्द्रियादिभ्य उद्धृत्य पृथिव्यादिष्वन्तर्मुहूर्त्त स्थित्वा भूयः कस्यापि द्वीन्द्रियादिषु गमनात्, उत्कर्षत: प्रागुक्तस्वरूपो वनस्पतिकालः, अयोगी सिद्ध:, स च साद्यपर्यव सितः । अन्तरचिन्तायां मनोयोगिनोऽन्तरं जघन्येनान्तर्मुहूर्त्तं, तत ऊर्द्ध भूयो विशिष्टमनोयोग्य पुद्गलग्रहणसम्भवात्, उत्कर्षतो वनस्पतिकाल:, तावन्तं कालं स्थित्वा भूयो मनोयोगिष्वागमनसम्भवात् एवं वाग्योगिनोऽपि जघन्यत उत्कर्षतश्चान्तरं भावनीयं, औदारिककाययोगिनो जघन्यत एकं समयं, औदारिकलक्षणं कायमपेक्ष्यैतत्सूत्रं यतो द्विसामायिक्यामपान्तरालगतावेकः समयोऽन्तरं, उत्कर्षतोऽन्तर्मुहूर्त्त इदं हि सूत्रं परिपूर्णोदारिकशरीरपर्याप्तिपरिसमात्यपेक्षं, तत्र विग्रहसमयादारभ्य यावदौदा रिकशरीरपर्याप्तिपरि समाप्तिस्तावदन्तर्मुहूर्त्त तत उक्तमुत्कर्षतोऽन्तर्मुहूर्त्त, चैतत्वमनीषिकाविजृम्भितं यत आह चूर्णिकृत् - 'काय जोगिस्स जह० एकं समयं, कहूं ?, एकसामायिकविग्रहगतस्य, उक्कोसं अंतरं अंतोंमुहुत्तं विग्रहसमयादारभ्य औदारिकशरीरपर्याप्तकस्य यावदेवमन्तमुहूर्त्त द्रष्टव्यमिति, सूत्राणि ह्यमूनि विचित्राभिप्रायतया दुर्लक्ष्याणीति सम्यक्संप्रदायादवसातव्यानि, सम्प्रदायश्च यथोक्तस्वरूप इति न काचिदनुपपत्तिः, न च सूत्राभिप्रायमज्ञात्वा अनुपपत्तिरुद्भावनीया, महाशातनायोगतो महाऽनर्थप्रसक्तेः, सूत्रकृतो हि भगवन्तो महीयांसः प्रमाणीकृताश्च महीयस्तरैस्तत्कालवर्त्तिभिरन्यैर्विद्वद्भिस्ततो न तत्सूत्रेषु मनागप्यनुपपत्तिः, केवलं सम्प्रदायावसाये यत्नो विधेयः, ये तु सूत्राभिप्रायमज्ञात्वा यथा कथञ्चिदनुपपत्तिमुद्भावयन्ते ते महतो महीयस आशातयन्तीति दीर्घतर संसारभाजः, आह च टीकाकारः - " एवं विचित्राणि सूत्राणि सम्यक्संप्रदायादवसेयानीत्यविज्ञाय तदभिप्रायं नानुपपत्तिचोदना कार्या, महाशा
For Private & Personal Use Only
ainelibrary.org