Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 885
________________ OCOCOCCU जोगिभवल्थकेवलिअणाहारगस्स त्थि अंतरं ॥ एएसि णं भंते! आहारगाणं अणाहारगाण य कयरे २ हिंतो अप्पा बहु०?, गोयमा! सव्वत्थोवा अणाहारगा आहारगा असंखेज्जा॥ (सू०२४७) । _ 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-आहारकाश्च अनाहारकाश्च ॥ अधुना कायस्थितिमाह-'आहारगे | भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! आहारको द्विविधः प्रज्ञप्तस्तद्यथा-छद्मस्थाहारकः केवल्याहारकः, तत्र छद्मस्थाहारको जघन्येन क्षुल्लकभवग्रहणं द्विसमयोन, एतच्च जघन्याधिकाराद्विग्रहेणागत्य क्षुल्लकभवग्रहणवत्सूत्पादे परिभावनीयं, तत्र यद्यपि नाम लोकान्त-18 | निष्कुटादावुत्पादे चतु:सामयिकी पञ्चसामयिकी च विग्रहगतिर्भवति तथाऽपि बाहुल्येन त्रिसामयिक्येवेति तामेवाधिकृत्य सूत्रभिदमुक्तं, इत्थमेवान्येषामपि पूर्वाचार्याणां प्रवृत्तिदर्शनात् , उक्तञ्च-एक द्वौ वाऽनाहारकः” (तत्त्वा० अ० २ सू० ३१) इति, त्रिसामयिक्यां |च विग्रहगतावाद्यौ द्वौ समयावनाहारक इति ताभ्यां हीनमुक्तं, उत्कर्षतोऽसयेयं कालम् , असोया उत्सपिण्यवसपिण्यः कालत:, क्षेत्रतोऽङ्गुलस्यासङ्ख्येयो भागः, किमुक्तं भवति ?-अङ्गुलमात्रक्षेत्राङ्गुलासङ्ख्येयभागे यावन्त आकाशप्रदेशास्तावन्तः प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन निलेपा भवन्ति तावत्य उत्सपिण्यवसर्पिण्य इति, तावन्तं हि कालमविग्रहेणोत्पाद्यते, अविग्रहोत्पत्तौ च सततमाहारकः । केवल्याहारकप्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, स चान्तकृत् केवली प्रतिपत्तव्यः, उत्कतो देशोना पूर्वकोटी, सा च पूर्वकोट्यायुषो नववर्षादारभ्योत्पन्न केवलज्ञानस्य परिभावनीया । अनाहारकविषयं सूत्रमाह-'अना हारए णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनाहारको द्विविधः प्रज्ञप्तः-छद्मस्थोऽनाहारकः केवल्यनाहारकश्च, छद्मस्थानाहारकप्रश्नसूत्रं सुगमं भगवानाह-गौतम! जघन्यत एकं समय, जघन्याधिकाराहिसामयिकी विप्रहगतिमपेक्ष्यैतदवसातव्यं, T Jain Education inte For Private Personal Use Only ? hinelibrary.org

Loading...

Page Navigation
1 ... 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938