Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शतानि पत्रिंशानि एकभवग्रहणप्रमाणेन पट्पञ्चाशेन शतद्वयेनावलिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तश्च-11 "एगा कोडी सत्तट्ठि लक्ख सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाओ मुहुत्तमि ॥ १॥” एवं च यदुच्यते 'संखेजाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि तदतीव समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिभवस्थकेवल्यना-] हारकस्यान्तरमभिधित्सुराह-'सजोगिभवत्थकेवलि अणाहारयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्पणाप्यन्तर्मुहूर्त, समुद्घातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषा|धिकमवसातव्यं अन्यथोभयपदोपन्यासायोगात् । अयोगिभवस्थकेवल्यनाहारकसूत्रे नास्त्यन्तरं, अयोग्यवस्थायां सर्वस्याप्यनाहारकत्वात् । एवं सिद्धस्यापि साद्यपर्यवसितस्यानाहारकस्यान्तराभावो भावनीयः ॥ साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुत्वमाह-'एएसिके णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका अनाहारकाः, सिद्धविग्रहगत्यापनसमुद्घातगतसयोगिकेवल्ययो-| गिकेवलिनामेवानाहारकत्वात् , तेभ्य आहारका असङ्ख्येयगुणाः, अथ सिद्धेभ्योऽनन्तगुणा वनस्पतिजीवास्ते च प्राय आहारका इत्यनन्तगुणाः कथं न भवन्ति ?, उच्यते, इह प्रतिनिगोदमसङ्ख्येयो भागः प्रतिसमयं सदा विग्रगत्यापन्नो लभ्यते, विग्रहगत्यापन्ना अनाहारकाः, "बिग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ १॥" [विग्रहगत्या| पन्नाः समुद्धताः अयोगिनश्च केवलिनः सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥ १॥"] इतिवचनात् ततोऽसङ्ख्येयगुणा एवाहारका घटन्ते नानन्तगुणा इति ॥ प्रकारान्तरेण भूयो द्वैविध्यमाह
अहवा दुविहा सब्वजीवा पण्णत्ता, तंजहा-सभासगा अभासगा य ॥ सभासए णं भंते! स
Jain Education inte
For Private Personal Use Only

Page Navigation
1 ... 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938