SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ शतानि पत्रिंशानि एकभवग्रहणप्रमाणेन पट्पञ्चाशेन शतद्वयेनावलिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तश्च-11 "एगा कोडी सत्तट्ठि लक्ख सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाओ मुहुत्तमि ॥ १॥” एवं च यदुच्यते 'संखेजाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि तदतीव समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिभवस्थकेवल्यना-] हारकस्यान्तरमभिधित्सुराह-'सजोगिभवत्थकेवलि अणाहारयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्पणाप्यन्तर्मुहूर्त, समुद्घातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषा|धिकमवसातव्यं अन्यथोभयपदोपन्यासायोगात् । अयोगिभवस्थकेवल्यनाहारकसूत्रे नास्त्यन्तरं, अयोग्यवस्थायां सर्वस्याप्यनाहारकत्वात् । एवं सिद्धस्यापि साद्यपर्यवसितस्यानाहारकस्यान्तराभावो भावनीयः ॥ साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुत्वमाह-'एएसिके णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका अनाहारकाः, सिद्धविग्रहगत्यापनसमुद्घातगतसयोगिकेवल्ययो-| गिकेवलिनामेवानाहारकत्वात् , तेभ्य आहारका असङ्ख्येयगुणाः, अथ सिद्धेभ्योऽनन्तगुणा वनस्पतिजीवास्ते च प्राय आहारका इत्यनन्तगुणाः कथं न भवन्ति ?, उच्यते, इह प्रतिनिगोदमसङ्ख्येयो भागः प्रतिसमयं सदा विग्रगत्यापन्नो लभ्यते, विग्रहगत्यापन्ना अनाहारकाः, "बिग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ १॥" [विग्रहगत्या| पन्नाः समुद्धताः अयोगिनश्च केवलिनः सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥ १॥"] इतिवचनात् ततोऽसङ्ख्येयगुणा एवाहारका घटन्ते नानन्तगुणा इति ॥ प्रकारान्तरेण भूयो द्वैविध्यमाह अहवा दुविहा सब्वजीवा पण्णत्ता, तंजहा-सभासगा अभासगा य ॥ सभासए णं भंते! स Jain Education inte For Private Personal Use Only
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy