________________
OCOCOCCU
जोगिभवल्थकेवलिअणाहारगस्स त्थि अंतरं ॥ एएसि णं भंते! आहारगाणं अणाहारगाण य
कयरे २ हिंतो अप्पा बहु०?, गोयमा! सव्वत्थोवा अणाहारगा आहारगा असंखेज्जा॥ (सू०२४७) । _ 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-आहारकाश्च अनाहारकाश्च ॥ अधुना कायस्थितिमाह-'आहारगे | भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! आहारको द्विविधः प्रज्ञप्तस्तद्यथा-छद्मस्थाहारकः केवल्याहारकः, तत्र छद्मस्थाहारको जघन्येन क्षुल्लकभवग्रहणं द्विसमयोन, एतच्च जघन्याधिकाराद्विग्रहेणागत्य क्षुल्लकभवग्रहणवत्सूत्पादे परिभावनीयं, तत्र यद्यपि नाम लोकान्त-18 | निष्कुटादावुत्पादे चतु:सामयिकी पञ्चसामयिकी च विग्रहगतिर्भवति तथाऽपि बाहुल्येन त्रिसामयिक्येवेति तामेवाधिकृत्य सूत्रभिदमुक्तं,
इत्थमेवान्येषामपि पूर्वाचार्याणां प्रवृत्तिदर्शनात् , उक्तञ्च-एक द्वौ वाऽनाहारकः” (तत्त्वा० अ० २ सू० ३१) इति, त्रिसामयिक्यां |च विग्रहगतावाद्यौ द्वौ समयावनाहारक इति ताभ्यां हीनमुक्तं, उत्कर्षतोऽसयेयं कालम् , असोया उत्सपिण्यवसपिण्यः कालत:, क्षेत्रतोऽङ्गुलस्यासङ्ख्येयो भागः, किमुक्तं भवति ?-अङ्गुलमात्रक्षेत्राङ्गुलासङ्ख्येयभागे यावन्त आकाशप्रदेशास्तावन्तः प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन निलेपा भवन्ति तावत्य उत्सपिण्यवसर्पिण्य इति, तावन्तं हि कालमविग्रहेणोत्पाद्यते, अविग्रहोत्पत्तौ च सततमाहारकः । केवल्याहारकप्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, स चान्तकृत् केवली प्रतिपत्तव्यः, उत्कतो देशोना पूर्वकोटी, सा च पूर्वकोट्यायुषो नववर्षादारभ्योत्पन्न केवलज्ञानस्य परिभावनीया । अनाहारकविषयं सूत्रमाह-'अना हारए णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनाहारको द्विविधः प्रज्ञप्तः-छद्मस्थोऽनाहारकः केवल्यनाहारकश्च, छद्मस्थानाहारकप्रश्नसूत्रं सुगमं भगवानाह-गौतम! जघन्यत एकं समय, जघन्याधिकाराहिसामयिकी विप्रहगतिमपेक्ष्यैतदवसातव्यं,
T
Jain Education inte
For Private
Personal Use Only
?
hinelibrary.org