Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ४२० ॥
Jain Education Inte
मत्यन्तसूक्ष्मावगाहनत्वात् जलेषु च सर्वत्रापि प्रायोभावात्, पनकसेवालादयो हि जलेष्ववश्यंभाविनः, ते च बादरानन्तकायिका इति, तेभ्योऽपि बादरपृथिवीकायिका असङ्ख्येयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु च भावात्, तेभ्योऽसयेयगुणा बादाप्कायिकाः, समुद्रेषु जलप्राभूत्यात्, तेभ्यो बादरवायुकायिका असङ्ख्येयगुणाः, शुषिरे सर्वत्र वायुसम्भवात्, तेभ्योऽपि बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानां जीवानां भावात् तेभ्यः सामान्यतो बादरा विशेषाधिकाः, बादरत्रसका यिकादीनामपि तत्र प्रक्षेपात् ॥ गतमेकमौधिकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह – 'एएसि णं भंते!' इत्यादि, सर्व| स्तोका बादरसकायिका अपर्याप्ताः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजस्कायिका अपर्याप्ता असयेयगुणाः, असङ्ख्येयलोकाकाशप्र माणत्वात् इत्येवं प्रागुक्तक्रमेणेदमप्यल्पबहुत्वं परिभावनीयम् । गतं द्वितीयमल्पबहुत्वं साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह - 'एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपय समयन्यूनैरावलिकासमयैर्गुणितस्य यावान् समयराशिर्भवति तावत्प्रमाणत्वात्तेषाम् उक्तञ्च – “आवलिवग्गो कमेणावलीए गुणिओ हि बायरो तेऊ” इति, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां तेभ्यः प्रत्येकशरीबादरवनस्पतिकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्त्यङ्गुला सङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् उक्तञ्च - "पत्तेयपज्जत्तवणकाइया उ पयरं हरंति लोगस्स अंगुलअसंखभागेण भाइय”मिति, तेभ्यो बादरनिगोदपर्याप्तका असङ्ख्येयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलाशयेषु च सर्वत्र प्रायोभावात्, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूतसयेय प्रतराङ्कुलासङ्ख्येयभागखण्डमानत्वात्, तेभ्योऽपि बादराप्कायिका: पर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूततरासङ्ख्येयप्रतराङ्कुलासये
For Private & Personal Use Only
५ प्रतिपत्तौ
सूक्ष्मबादरयोर
ल्पबहुत्वं
उद्देशः २
सू० २३७
॥ ४२० ॥
ainelibrary.org

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938