________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ४२० ॥
Jain Education Inte
मत्यन्तसूक्ष्मावगाहनत्वात् जलेषु च सर्वत्रापि प्रायोभावात्, पनकसेवालादयो हि जलेष्ववश्यंभाविनः, ते च बादरानन्तकायिका इति, तेभ्योऽपि बादरपृथिवीकायिका असङ्ख्येयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु च भावात्, तेभ्योऽसयेयगुणा बादाप्कायिकाः, समुद्रेषु जलप्राभूत्यात्, तेभ्यो बादरवायुकायिका असङ्ख्येयगुणाः, शुषिरे सर्वत्र वायुसम्भवात्, तेभ्योऽपि बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानां जीवानां भावात् तेभ्यः सामान्यतो बादरा विशेषाधिकाः, बादरत्रसका यिकादीनामपि तत्र प्रक्षेपात् ॥ गतमेकमौधिकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह – 'एएसि णं भंते!' इत्यादि, सर्व| स्तोका बादरसकायिका अपर्याप्ताः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजस्कायिका अपर्याप्ता असयेयगुणाः, असङ्ख्येयलोकाकाशप्र माणत्वात् इत्येवं प्रागुक्तक्रमेणेदमप्यल्पबहुत्वं परिभावनीयम् । गतं द्वितीयमल्पबहुत्वं साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह - 'एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपय समयन्यूनैरावलिकासमयैर्गुणितस्य यावान् समयराशिर्भवति तावत्प्रमाणत्वात्तेषाम् उक्तञ्च – “आवलिवग्गो कमेणावलीए गुणिओ हि बायरो तेऊ” इति, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां तेभ्यः प्रत्येकशरीबादरवनस्पतिकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावन्त्यङ्गुला सङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् उक्तञ्च - "पत्तेयपज्जत्तवणकाइया उ पयरं हरंति लोगस्स अंगुलअसंखभागेण भाइय”मिति, तेभ्यो बादरनिगोदपर्याप्तका असङ्ख्येयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलाशयेषु च सर्वत्र प्रायोभावात्, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूतसयेय प्रतराङ्कुलासङ्ख्येयभागखण्डमानत्वात्, तेभ्योऽपि बादराप्कायिका: पर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूततरासङ्ख्येयप्रतराङ्कुलासये
For Private & Personal Use Only
५ प्रतिपत्तौ
सूक्ष्मबादरयोर
ल्पबहुत्वं
उद्देशः २
सू० २३७
॥ ४२० ॥
ainelibrary.org